पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७१
प्रयोदशः सर्गः।

भूतः-अतिशयित आजिः सङ्ग्रामो यस्य । तथा-लब्धो विजयेनार्जुनेन कृत्वा प्रसरो वंशविस्तरो येन । ततः कर्मधारयः। 'प्रसवः' इति पाठे नलपक्षे-जयलाभः । इन्द्रपक्षे--लब्धो विजयोऽर्जुनो, विजयत इति विजयो जयन्तो वा, प्रसवः पुत्रो येन । तथारुचिपदं तेजःस्थानम् । तथा-मही उत्सववान् । तथा-अयं प्रत्यर्थिनां दानवानां श; तेष्वहिता प्रतिकूला चेष्टा, अहितस्य शत्रोर्वा चेष्टा शत्रुत्वकृतः, तन्नाशकरो व्यापारस्तेन इन्द्रबुद्धिं कस्य न करोति । अथवा-अयं महेन्द्रस्त्वया किमित्यत्याजि केन हेतुना त्यक्तः । अयं न विज्ञायते विज्ञ इवाचरति विज्ञायते एवंभूतो न भवति । अपितु विद्वानेवेत्यर्थः । तथा-रुचि पदं कान्तिस्थानं न, तथा-मही नेति नञावृत्त्या काक्का व्याख्येयम् । एवं गुणविशिष्टस्य परित्यागे किंचिदपि कारणं न पश्याम इति भावः । महेन्द्रस्त्वया विज्ञाय किमित्यत्याजि उचितमेव कृतमित्यर्थः । किम् प्रश्ने संभावनायां वा। त्यागे कारणमाह-लब्धो विना पक्षिणा गरुडेनामृताहरणसमये जयस्य प्रसरो विस्तारो यस्य । गरुडेन पराजित इत्यर्थः। तथा -अरुचिपदमननुरागस्थानम् । तथा न मही उत्सवरहितः सदा दैत्यभयात् । अरुचिस्थानं महेन्द्रः त्वया किं न विज्ञायते अपि तु ज्ञात एव । यतः-अत्याजि त्यक्त इति वा । अस्मिन्पक्षे न महीत्यत्र नञ् आवृत्तिः। अतिशयितरणे लब्धो विना जयप्रसरो यस्येति वा । 'विजयस्तु जये पार्थे' इत्यमरः । विज्ञायते 'उपमानादाचारे, 'कर्तुः क्यङ् ॥

येनामुना बहुविगाढसुरेश्वराध्व-
 राज्याभिषेकविकसन्महसा बुभूवे ।
आवर्जनं तमनु ते ननु साधु नाम-
 ग्राहं मयानलमुदीरितमेवमत्र ॥ २९ ॥

 येनेति ॥ येनामुना नलेन बह्वतिशयेन विगाढः सेवितः सुरेश्वरस्याध्वा मार्गः त्रिलोकीप्रतिपालनलक्षणो येन । तथा-राज्ये योऽभिषेको मङ्गलस्नानं तेन कृत्वा विकसन्महो यस्य । एवंविधेन बुभूवे जातम् । पूर्वेण कर्मधारयः। बहुवारं सेवितो देवेन्द्रेण मार्गों लोकपालनप्रकारो यस्येति वा । पश्चात्कर्मधारयः । इन्द्रेण लोकपरिपालनमस्माच्छिक्षितमित्यर्थः । ननु भैमि अत्र पञ्चसु मध्ये स्वयंवरे वा नामग्राहं नाम गृहीत्वा एवममुना पूर्वोक्तेन प्रकारेण मयोदीरितमुक्तं तं नलमनु लक्षीकृत्य ते तव आवर्जनं पतित्वेनाङ्गीकरणं साधु शुभम् । सत्यनलमेनं सर्वथा वृणीष्वेति भावः॥

 वह्निपक्षे-येनानेन वह्निनाऽनेकवारमनुभूतो यः सुरेश्वराध्वरेषु देवेन्द्रयज्ञेष्वाज्याभिषेको घृताप्लवस्तेन कृत्वा विकस्वरतेजसा जातम् । बहु वारंवारं विगाढ आवर्तितः 'इन्द्र आयाहि' इत्यादिना आहूतः सुरेश्वरो यत्र तादृशेषु यागेष्वाज्याभिषेकस्तेन कृत्वा विकस्वरतेजसा जातमिति वा । ननु भैमि, अत्र पञ्चसु मध्ये नाम गृहीत्वा एवं पूर्वोक्तप्रकारेण मयोक्तं तं अनलमग्निं प्रति ते वर्जनं साधु । अपि तु न साधु । आ इति खेदे । आवर्जनं पतित्वेनाङ्गीकरणं साध्विति वा । नु भैमि तमनु ते वर्जनं न साध्विति वा । पूर्वार्धेन सर्वदा परान्नभोजनेनैव परिपुष्टोऽयमिति त्यागः सूचितः।