पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७७
त्रयोदशः सर्गः।


चासावजश्च तस्य धराजस्य श्रीविष्णोर्गतिः प्रथममयनमाधारो जलं तस्य पतिर्न । अपितु तत्पतिर्वरुणः किं न निर्णीयते । उदकम्, 'आपो नाराः' इत्यादिना श्रीविष्णोराश्रयः । अथ च-यदि त्वमेनम् अः श्रीविष्णुः इनः स्वामी यस्य तं श्रीविष्णुभक्तं त्यजसि, तर्हि तव लाभो न, किंतु हानिरेव । तस्मात्तव कतरो वरुण एव परः श्रेष्ठो वर इति वा ॥ * ॥ अत्रापि त्यागः सूचितः । तथाहि -एष धराजगत्याः पूर्वोक्तप्रकारेण उदकस्य प्रतीच्या दिशो वा पतिर्वरुणो देवो न । अपितु स एवेति निर्णीयते किमु । अपितु निश्चित एव । यतो न व्रियते । नायं नल इत्यादि तुल्यम् । यद्येनं त्यजसि तर्हि तवापि(ति) महतामनानां प्राणानां लाभः । जीवितासीत्यर्थः । यस्मात्ते सुखसमुद्ररूपः श्रेष्ठो नलो वरो भविता । नलप्राप्तावेव तव प्राणनं, नान्यथेति भाव इत्यादिव्याख्या सुधिया योजनीया । ग्रन्थविस्तरभयान्न लिखिता ॥

नलपक्षे-अयं नैषधराजस्य निषधदेशसंबन्धिनो राज्ञः, निषधदेशोद्भवानां लोकानां यो राजा तस्य वा, गत्या ज्ञानेन कृत्वा पतिः स्वामी देवः क्रीडादियुक्तः, राजा वा, ना मनुष्यो नलः किं न निश्चीयते किं वा न व्रियते । अपितु निषधाधिपो मर्त्य एवायं पञ्चमो नल एवायमिति निश्चेतव्यो वरणीयश्चेत्यर्थः। खलु यस्मात् तवाति महानलाभो विष्णुलाभः। 'ना विष्णुः पृथिवी पतिः' इति नलस्य विष्णुत्वादित्यर्थः। यदि चो- त्कृष्टवराकाङ्क्षया एनं त्यजसि तर्हि को वरोऽस्मात्परोऽधिकः । अपितु नास्तीति नलमेव वृणीष्वेति भावः । नलस्यावरणेऽभर्तृकैव स्थास्यसीत्यर्थः । एष धराजगत्या भूलोकस्य पतिः स्वामी ना मनुष्यो नलो देवो राजा न, अपि तु नल एवेति किं न निश्चीयते किं वा न व्रियते । अपि तु निश्चेयो वरणीयश्च । यस्मान्नलवरणे तवातिमहतो जीवनस्य लाभः । नलप्राप्तावेव तव जीवनं भविष्यतीत्यर्थः । यदि च अयं शुभावहदैवरूपमेनं त्यजसि तर्हि तव कः श्रेष्ठो वरः । अपि त्वन्यो नास्तीत्यर्थ इति वा । नैषधराज एव गतिर्यस्यास्तया भवत्या मनुष्योऽयं नलो राजा पतिः किं न निश्चीयते किं वा न व्रियते । अपितूभयमपि कर्तव्यम् । यद्येनमुज्झसि तर्हि तव निश्चितमति महानलाभो महदभाग्यम् । यस्मादेतादृशोऽन्यः कतरो वरः । अपितु नास्त्येवेत्यर्थ इति वा । एष देवो न इन्द्रादिरमरो न, किंतु भूलोकस्य पतिर्मनुष्यो नल इति किं न निश्चीयते, किं वा न व्रियते । यदि चायं देवरूपमेनं त्यजसि तर्हि तव लाभो न, किं तु हानिरेव । धरायां जायन्ते धराजा मनुष्यास्तेषां गत्या प्रकारेण सनिमेषनेत्रत्वादिलिङ्गेन एष देवो नेति किमु न निर्णीयते । तथा-पतिरिति किमिति न व्रियते । निश्चितं ना मनुष्यो नलोऽयम् । यदि चैनं त्यजसि तर्हि तव परोऽन्यो वरः श्रेष्ठः कतरो लाभः । अपितु एतद्वरणात्परः श्रेष्ठो लाभो नास्तीत्यर्थः । एष धरायां भूलोकेऽतिसौन्दर्यादजः काम इति बुद्ध्या प्राणेशो मनुष्यो नलो नतु देवः कश्चिदिति किं न निर्णीयते किं वा न व्रियते । निकटस्थानामेषां चतुर्णामेतदाकारधारणात्कृत्रिमं सौन्दर्य, अस्य तु सहजमिति दर्शनमात्रेण तारतम्यं ज्ञात्वा एष नलो निश्चयो वरणीयश्चेत्यर्थः। खलु यस्मात्तदाकारधारणेनातिमानामति(स)लक्ष्मीकाणामिन्द्रादीनां हाने परित्यागे लाभः । तव कपट- सौन्दर्यास्ते न वरणीया इत्यर्थः । इत्यादिव्याख्या यथाबुद्धि ज्ञातव्या । 'नलः पोटगले राशि पितृदेवे कपीश्वरे' इत्यादि विश्वः॥