राहित्यसूचकम् । नलचिह्नानामस्फुटत्वेपि यदि देवचिह्नानि स्फुटान्यभविष्यंस्तर्हि पारिशेष्यान्नलनिश्चयोऽप्यभविष्यत् , तान्यपि त्वस्फुटानीत्युभयथापि मया नलो निश्चेतुं न शक्यत इति भावः ॥
याचे नलं किममरानथवा तदर्थं |
याच इति ॥ अहं मह्यं यूयं नलं प्रयच्छतेत्यमरान्नलं याचे किम् । अथ वा पूर्वापरितोषे । तदर्थं नलप्राप्त्यर्थं तेषां नित्यार्चनादपि ममाफलिनैः प्रार्थितमददद्भिस्तैर्देवैरलं पूर्यताम् । एतावन्ति दिनानि नित्यपूजनादपि ये नलं न प्रायच्छंस्तेऽधुना प्रार्थनमात्रेण कथं दास्यन्तीति वृथैव तत्प्रार्थनमित्यर्थः। किंविधैस्तैः-कंदर्पस्य शोषणाख्यः शिलीमुखो बाणस्तेन पातात्पतनात्पीतः शोषितः कारुण्यनीरनिधिः कृपासमुद्रो येषां तानि अत एव गह्वराणि गभीरबिलरूपाणि घोराणि कठिनानि चित्तानि येषामेवंभूतैः। यस्मात्कृतेऽपि पूजने कामायत्ततया निष्कृपत्वादफलिनैरित्यर्थः । याचिर्द्विकर्मा । 'न दत्तफलैः' इति वा पाठः । फलशब्दादस्त्यर्थे 'फलबर्हाभ्यामिनन्' । ततो नञ्समासः ॥ देवानुपालभते-
ईशा दिशां नलभुवं प्रतिपद्य लेखा |
ईशा इति ॥ हे दिशामीशा दिक्पाला लेखा देवाः, नलो भूः स्थानं यस्यास्तां नलप्रभवां वा वर्णश्रियं रूपशोभां प्रतिपद्य प्राप्य गुणवतां सौन्दर्यादिगुणयुक्तानामपि वो युष्माकं परेषामुपकृतिरुपकार एव व्रतं तद्विद्यते येषां ते व्रतिनस्तेषां भावस्तत्त्वं कथं वा कुतो वा हेतोरस्तं गतं नष्टम् । स्वयमुपकारकत्वाभावेऽपि स्वाभिलषितायामपि मयि भवदर्थं दूत्यकारिणो नलस्याप्याकारे धृते सौन्दर्यादिगुणागमनात्परोपकारित्वमप्यागतं तन्मद्विषये कथं विनष्टमित्यर्थः । नलाकारधारणादेतावती मत्प्रतारणा किमिति क्रियत इति भावः । केषामिव-मूर्खा अश्रुतशास्त्राः पुरुषा एवाज्ञानवशादन्धाः त एव कूपा अतिगभीरा मूर्खरूपाः कूपास्तेषु पतनात्तदधीनत्वात्तृणविशेषलेखनीभूतनलप्रभवां रेखावर्णश्रियं लिप्यक्षरशोभां प्राप्य शुद्धत्वादिगुणयुक्तानां दोरकयुक्तानां वा पुस्तकानां यथा वाचकपाठकाद्युपकारित्वमस्तं गच्छति । मूर्खस्य मूर्खत्वा-