पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८८
नैषधीयचरिते

 इतरेति ॥ इतरैश्चतुभिर्नलैस्तुलां साम्यं भजत इति भाग् , एष शेषः पञ्चसु मध्ये अन्त्यः पञ्चमो नैषधः मम चेतः कस्य हेतोः केन कारणेन सुधाभिरमृतैः स्नपयति आप्लुतमिव करोति । रूपसाम्ये सत्यप्येष एव मम मनसे यतो रोचते, तस्मादयमेव सत्यनलो भविष्यतीत्याशयः। सत्यनलत्वज्ञापकं निरुपाधिकपरमप्रेमसंवादं दृष्टान्तेन प्रथयति-प्रथमेति । वाथवा युक्तमेतत् । प्रथमचरमयोरादिमान्त्ययोः शब्दयोर्वर्णैरक्षरैः सख्ये मैत्र्यां सत्यामपि चरमे पाश्चात्त्ये शब्देऽनुप्रासभासां छेकानुप्रासवृत्त्यनुप्रासलाटानुप्रासाख्यशब्दालंकारकान्तीनां विलास उल्लासश्चमत्कारो विलसति विशेषेण शोभते । वर्णसाम्ये सत्यपि प्रथमस्यानायासगतत्वात् , द्वितीयस्य तु सदृशस्य पश्चाद्भूरिप्रयत्नसाध्यत्वाच्चरमे यद्यनुप्रासत्वं स्फुरति, तथापि द्वितीयसाहित्ये प्रथमेऽपि यथाऽनुप्रासत्वमस्ति तथा सुन्दरान्तरविच्छेदेन पश्चादवलोक्यमानतयैव पञ्चमश्चेतसे रोचते, नत्वत्र सत्यत्वं प्रयोजकम् । अतः सर्वेऽपि तुल्या एवेति भावः । अत्रायमेव श्लोको दृष्टान्तः । अत्रत्ययोरेव प्रथमचरमशब्दयोर्वर्णसाम्ये सत्यपि चरमे चरमशब्द एवानुप्रासातिशयः न प्रथमशब्दे । प्रथम इत्युक्ते नानुप्रासः। प्रथमचरमयोरित्युक्ते तु चरम एवानुप्रासातिशयो दृश्यते न तथा प्रथम इत्यर्थ इति वा । यद्वा-आद्यपादचतुर्थपादयोर्वर्णसाम्ये सत्यपि चरमे चतुर्थपादेऽनुप्रासभासां विलासो विलसति । उभयोरनुप्रासत्वे सत्यपि चतुर्थेऽनुप्रासभासां विलास इत्युक्तेस्तत्रैवानुप्रासत्वम् , न तु प्रथमे । 'स्नपयति' इति मित्त्वपक्षे ह्रस्वः । कस्य हेतोः, 'षष्ठी हेतुप्रयोगे' इति षष्ठी ॥

इति मनसि विकल्पानुद्यतः संत्यजन्ती
 क्वचिदपि दमयन्ती निर्णयं नाससाद ।
मुखमथ परितापास्कन्दितानन्दमस्या
 मिहिरविरचितावस्कन्दमिन्दुं निनिन्द ॥ ५५ ॥

 इतीति ॥ इत्युक्तप्रकारेण मनसि उद्यत उत्पद्यमानान्विकल्पाननेकशङ्कावलम्बनबोधान्दोषोद्भावनेन संत्यजन्ती दमयन्ती क्वचिदपि निर्णयं निश्चयं नाससाद । पञ्चसु मध्ये कस्मिन्नपि पुंसि नलनिश्चयं न प्रापेति वा । अथ पश्चान्नलनिश्चयाभावात्परितापेनास्कन्दितोऽभिभूत आनन्दो यस्य । परितापेन कृत्वा अस्कन्दितोऽप्राप्त आनन्दो येनैवंभूतं वास्या मुखं कर्तृ । मिहिरेण सूर्येण रचितोऽवस्कन्दः पराभवो यस्यैवंविधमिन्दुं निनिन्द । निष्प्रभचन्द्रसदृशमभूदित्यर्थः। आस्कन्दनमास्कन्दः पराभवः। परितापेन य आस्कन्दः स संजातो यस्य एवंविध आनन्दो यस्येति तारकादित्वाद्रूपसिद्धिः॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
 श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
स्वादूत्पादभृति त्रयोदशतयादेश्यस्तदीये महा-
 काव्येऽयं व्यगलन्नलस्य चरिते सगों रसाम्भोनिधिः ॥१३॥