पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८९
चतुर्दशः सर्गः।

 श्रीहर्षमिति ॥ अर्धे पूर्ववत् । स्वादूत्पादभृति सहृदयहृदयाह्लाददायित्वात्स्वादुरसोत्पत्तिधारकेऽत्यन्तमधुरनवार्थसहिते त्रयोदशतया आदेश्योऽभिधेयः सर्गो व्यरमत् । समाप्त इत्यर्थः । व्यरमत् , 'व्याङ्परिभ्यो रमः' इति परस्मैपदम् ॥

इति श्रीबेदरकरोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्रकाशे त्रयोदशः सर्गः ॥

चतुर्दशः सर्गः।

अथाधिगन्तुं निषधेश्वरं सा प्रसादनामाद्रियतामराणाम् ।
यतः सुराणां सुरभिर्नृणां तु सा वेधसासृज्यत कामधेनुः ॥१ ॥

 अथेति ॥ अथ विकल्पदूषणानन्तरं सा भैमी निषधेश्वरं नलमधिगन्तुं निश्चेतुं प्राप्तुं च षोडशोपचारैरमराणां प्रसादनां परितोषणमाद्रियत आदरेण चकार । यतो वेधसा सुराणां कामधेनुरभिलाषप्रसूः सुरभिर्गौरसृज्यत सृष्टा, नृणां तु पुनः कामप्रसूः सा देवप्रसादना सृष्टा । तस्मान्नलनिश्चयार्थं प्राप्त्यर्थं च देवपरितोषणं चकारेति युक्तमि [१]त्यर्थः॥

[२][३]थाधिगन्तुं निषधेशमेषां प्रसादनं दानवशात्रवाणाम् । अचेष्टतासौ महतीष्टसिद्धिराराधनादेव हि देवतानाम् ॥ १॥

अथेति । क्षेपकः ॥ अचेष्टत अकृत । शत्रव एव शात्रवाः। प्रज्ञादित्वात्स्वार्थेऽण् ॥

 पूर्वोक्तार्थसमर्थनार्थमर्थान्तरन्यासमाह-

प्रदक्षिणप्रक्रमणालवालविलेपधूपाचरणाम्बुसेकैः ।
इष्टं च मृष्टं च फलं सुवाना देवा हि कल्पद्रुमकाननं नः ॥२॥

 प्रदक्षिणेति ॥ हि यस्मात् देवा नोऽस्माकं मनुष्याणां कल्पद्रुमकाननं वहवः कल्पवृक्षा एवेति कवेरुक्तिः। किंभूता देवाः-प्रदक्षिणं प्रक्रमणं वलयाकारं परिभ्रमणं तदेवालवालं वृक्षमूले जलधारणार्थं वलयाकारः सेतुः स च विलेपश्चन्दनादिलेपश्च, धूपो दशाङ्गादिस्तेषामाचरणानि करणानि तान्येवाम्बुसेकाः (तैः) । प्रदक्षिणाद्याचरणं चोदकस्नपनानि च तैर्वा । कृत्वा इष्टमभिलषितं च मृष्टं च स्वभावसुन्दरं सुस्वादु च फलं मनोरथरूपमाम्रादिकं च सुवाना उत्पादयन्तः । वृक्षा अप्यालवालवृक्षायुर्वेदोक्त-


  1. 'अत्रामरप्रसादनायाः कामधेनुत्वेन रूपणाद्रूपकालंकारः' इति जीवातुः
  2. 'पूर्वोक्त एवार्थो भङ्ग्यन्तरेण निबद्धः । अत एव पाठान्तरम् । केषुचिदादर्शेषु त्वयं श्लोकोनास्त्येव' इति सुखावबोधा । अत एव जीवातौ न व्याख्यायि ।
  3. 'अत्र प्रदक्षिणप्रक्रमणाद्यालवालाद्यवयवरूपणात् , देवेषु कल्पद्रुमरूपणाच्च समस्तवस्तुवर्तिरूपकम्' इति जीवातुः।