पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९०
नैषधीयचरिते

तरुदोषनाशक(नि)विडिङ्गादिलेपदोहदधूपाम्बुसेकैरिष्टं मृष्टं च फलं सुवते । 'आवरण-' इति पाठे अङ्गप्रत्यङ्गदेवतापूजा कण्टकावृतिश्चेति व्याख्ये[१]यम् ॥

 पूजाप्रारम्भार्थं प्रथमं नमस्कारमाह-

श्रद्धामयीभूय सुपर्वणस्तान्ननाम नामग्रहणाग्रकं सा।
सुरेषु हि श्रद्दधतां नमस्या सर्वार्थसि[२]द्ध्यङ्गमिथःसमस्या ॥३॥

 श्रद्धेति ॥ सा श्रद्धामयीभूय आस्तिक्यप्रचुरा भूत्वा तान्नलवेषधारिणः सुपर्वणो देवान्नामग्रहणाग्रकमिन्द्राय नम इत्यादिनामग्रहणपूर्वकं ननाम ववन्दे । हि यस्मात्सुरेषु श्रद्दधतां श्रद्धावतां नमस्या नमस्कार एव सर्वार्थसिद्धेः यान्यङ्गानि साधकानि तेषां मिथः समस्या परस्परपूरणहेतुः। श्रद्धापूर्वं देवनमस्कार एव कारणसामग्रीसंपादकः, तस्माद्देवं नमस्कृतवतीत्यर्थः। समस्यापि पदानां परिपूरणं करोति । श्रद्धामयी, प्रकृतवचने मयट् । अग्रकम् , 'शेषाद्विभाषा' इति कः(प्)। नमःकरणं नमस्या, 'नमोवरिवः-'

 देवपूजाङ्गध्यानं प्रथममाह-

यत्तान्निजे सा हृदि भावनाया बलेन साक्षादकृताखिलस्थान् ।
अभूदभीष्टप्रतिभूः स तस्या वरं हि दृष्टा ददते परं ते ॥ ४ ॥

 यदिति ॥ सा अखिलस्थान्सर्वगतान्तानिन्द्रादीन्भावनाया ध्यानस्य बलेन सामर्थ्येन निजे हृदि यत्साक्षादकृत प्रत्यक्षीचकार । सर्वगतानपि ध्यानबलेनैकत्रानीय ददर्शेत्यर्थः। स साक्षात्कार एव तस्या भैम्या अभीष्टस्य नलप्राप्तिलक्षणस्य प्रतिभूर्दाननिश्चयकर्ता अभूत् । हि यस्मादृष्टास्ते देवाः परं श्रेष्ठं वरमभीष्टं परिणेतारं च ददते प्रयच्छन्ति । नहि देवदर्शनं निष्फलं भवतीत्यर्थः॥

 इदानीं देवपूजामाह-

सभाजनं तत्र ससर्ज तेषां सभाजने पश्यति विस्मिते सा।
आमुद्यते यत्सुमनोभिरेवं फलस्य सिद्धौ सुमनोभिरेव ॥ ५॥

 सभाजनमिति ॥ सा तत्र स्वयंवरस्थाने अकस्मादेव देवपूजारम्भादत्यादरेण च पूजनाद्विस्मिते साश्चर्ये सभाजने सभालोके पश्यति सति, तमनादृत्य वा । तेषां देवानां सभाजनं प्रीत्याराधनं ससर्ज चक्रे। यद्यस्मात्फलस्याभीष्टस्य सिद्ध्यै दाने सुमनोभिः शोभनचित्तैरेवंभूतैरेव सद्भिः सुमनोभिर्देवैरेवमत्यादरपूजनेन कृत्वा आमुद्यते हृष्टैर्भूयते । तस्मादेवमपूजयदित्यर्थः । एवमेव एवं सत्येवेत्येवकारयोजना वा । पुष्पैरपि फलसिध्द्यर्थमामुद्यते विकस्वरीभूयते । सभाजने, 'यस्य च भावेन' इति, 'षष्टी चानादरे' इति वा स[३]प्तमी॥


  1. 'निध्यङ्ग-' इति जीवातुः
  2. ‘सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः' इति जीवातुः
  3. 'अत्रोभयेषामपि सुमनसामुभयोरप्यामोदयोश्च फलयोरभेदाध्यवसायेनायमर्थान्तरन्यासः' इति जीवातुः।