पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९१
चतुर्दशः सर्गः।

  वैशद्यहृद्यैर्म्रदिमाभिरामैरामोदिभिस्तानथ जातिजातैः ।
  आनर्च गीत्यन्वितषट्पदैः सा स्तवप्रसूनस्तबकैर्नवीनैः ॥ ६ ॥

 वैशद्येति ॥ अथ सा नवीनैर्नवैः स्तवैः स्तुतिश्लोकरूपैः प्रसूनस्तबकैः पुष्पगुच्छैः स्तुतिश्लोकैः पुष्पगुच्छैश्च वा तानिन्द्रादीनानर्च । किंविधैः-वैशद्येन स्पष्टतया प्रसादगुणेन हृद्यैः सहृदयप्रियैः । अथ च -शुभ्रत्वेन मनोज्ञैः । तथा-म्रदिम्ना निष्ठुरटवर्गादिवर्णरहितश्रुतिमधुरवर्णरचनजनितेन माधुर्येण । अथ च-सौकुमार्येण । अभिरामैः । अत एव-आमोदिभिर्हर्षजनकैः । अथ च -सौगन्ध्यसहितैः । तथा-जातेः षड्विंशत्यक्षरजनितचरणान्तायाः, अनुष्टुवादिजातैर्वा जातैः निष्पन्नैः। अथ च-मालतीसंभवैः । तथा-विशेषरूपया गीत्या अन्विता युक्ताः षट्पदाः षट्चरणाः श्लोका यत्र । अथ च -गुञ्जन्मधुकरैः । वैशद्यं शब्दार्थालंकारापशब्दभावदोषराहित्यं तेन मनोज्ञैर्वा । 'जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः' । 'गीतिश्छन्दसि गाने च' इति विश्वः। हृद्येति, 'हृदयस्य प्रिय' इति यत् । 'हृदयस्य हृल्लेखयदण्लासेषु' इति हृत् । अभिरम्यते यैस्तैरभिरामैः 'अकर्तरि च कारके-' इति चकारादसंज्ञायामपि करणे घञ् । जात्यादिलक्षणं छन्दोग्रन्थेभ्यो ज्ञातव्यम् । 'न वा कैः' इति पाठे कैः वा स्तवस्तबकैः न आनर्च, अपितु नानाप्रकारैः स्तवप्रसूनस्तबकैरपुपूजदि[१] त्यर्थः ॥

 पूजानन्तरं पुनरपि ध्यानमाह-

  हृत्पद्मसद्मन्यधिवास्य बुद्ध्या दध्यावथैतानियमेकताना।
  सुपर्वणांहि स्फुटभावना या सा पूर्वरूपं फलभावनायाः ॥ ७ ॥

   हृदिति ॥ अथ पूजानन्तरमियमेकतानाऽनन्यवृत्तिस्तत्परा सती हृदेव पद्मं तद्रूपे सद्मनि गृहे एतानिन्द्रादीन्बुद्ध्याधिवास्याधिष्ठाप्य दध्यौ । सर्वगतानामपि देवानां हृदये बुद्ध्या समारोपितं रूपं ध्यानेन साक्षादकृतेति यावत् । हि यस्मात्सुपर्वणां देवानां या स्फुटा भावना ध्यानबलेन प्रत्यक्षता सा फलभावनायाः कार्यसिद्धेः पूर्वरूपं प्रथमं स्वरूपम् । कारणस्य कार्यापेक्षया नियतप्राग्भावित्वाद्देवानां प्रत्यक्षतायाः कार्यमात्रं प्रति कारणत्वात्कारणसामग्रीरूपां देवप्रत्यक्षतां ध्यानेनाकृतेत्यर्थः । पूजायाः पूर्वमनन्तरं च ध्यानस्येष्टत्वात् 'यत्तान्' (१४।४) इत्यस्यास्य (१४।७) च श्लोकस्य न पौ[२]नरुक्त्यम् । 'उपान्वध्याङ्वसः' इत्यत्राण्यन्तस्य वसेर्ग्रहणात् ‘स्वहस्तदत्ते मुनिमासने-' इति वण्ण्यन्तस्य वसेः प्रकृत्यन्तरत्वात् हृत्पद्मसद्मनीत्याधारस्य न कर्म[३] त्वम् ॥


  1. 'अत्र स्तवानां प्रसूनस्तबकानां चोभयेषामप्यर्चनसाधनत्वेन प्रकृतानां धर्मतोऽल्पे(तौल्ये)नौपम्यस्य गम्यमानत्वात्केवलप्रकृतविषया तुल्ययोगिता' इति जीवातुः '
  2. 'सुखावबोधायां तु 'यत्तान्-' (१४।४) इति श्लोकोत्तरमेतमपि व्याख्याय 'पूर्वोक्तार्थ एवार्थोऽत्र निबद्धः । अत एव पाठान्तरम्' इत्युपसंहृतम् । अत एव जीवातौ न व्याख्यायि ।
  3. 'ये तु स्थूलबुद्धयः तत्र सामान्यग्रहणम्' इति मत्वा 'हृत्पद्मसम' इति कर्मपदं पृथक्कृत्य 'न्यधिवास्य' इति योजयन्ति । तदज्ञानविलसितमित्युपेक्ष्यम्' । इति सुखावबोधा