पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९३
चतुर्दशः सर्गः।

सा भैमी तां तां 'ब्रूमः-' इत्यादिगाथां तदा प्रसादानन्तरं तदन्येन तस्मात्तस्मादिन्द्रादिरूपान्मुख्यादर्थादन्येन श्लेषशक्त्या प्रतिभासमानेन नलरूपेणार्थेन सह खलु निश्चितमलगन्तीमसंबद्धार्थी विशेषं प्रति स्वस्वाकारधारणाद्भिन्नमिन्द्रादिदेवं प्रति संदधे योजयामास । इयमेतस्य गाथा इयमेतस्य गाथेति संवन्धं चकारेत्यर्थः । 'ब्रूम:- (स. १३ श्लो. ३) इत्यादौ 'बालां विलोक्य-' (१३ । २७) इति यावन्नलस्य सर्वत्रानुस्यूतत्वादिन्द्रादीनां तु चतसृषु चतसृष्वेव स्वस्वगाथास्वनुस्यूतत्वात्तां तामिन्द्रादिगाथां तदन्येन वह्न्यादिना सह अलगन्तीं विशेषमजानात् । या इन्द्रेण नलेन च समानार्था तामिन्द्रविषयामेव सस्सार । एवमितरदेवत्रितयेऽपि प्रत्येकं गाथामेकविषयामेव समार । एवं चतसृष्वपि गाथासु नलस्यानुवृत्तेरिन्द्रादीनां च व्यावृत्तेरावापोद्वापाभ्यां एते देवाः, अयमेव नलः, इत्यज्ञासीदित्याशय इति वा । प्रतिश्लोकं गाथात्वेपि चतुर्भिश्चतुर्भिः श्लोकैरेकैकस्य प्रतिपादनादेकगाथात्वसमारोपात्प्रत्येकपर्यवसानाद्वैकवचनम् । यद्वा-पञ्चमं नलं प्रति या या 'अत्याजि' (१३।२८) 'येनामुना' 'यञ्चण्डिमा' 'किं ते तथा-' (१३।३१) इत्यादिका गाथा येन येन इन्द्रादिना सह संबद्धार्था तदन्येन वह्न्यादिना सहालगन्तीं तां गाथामेव विशेषं भेदं जानाति स्म । एकैकस्या गाथाय एकैकदेवपर्यवसानाञ्चतसृणामपि गाथानां नले पर्यवसानात्परिशेषप्रमाणात् अयं पञ्चम एव नल इति विशेषमज्ञासीदित्यर्थः । अस्मिन्पक्षे-अमुमेवार्थमुक्तिविशेषेण प्रकटयितुमाह- एकैकेतीत्युत्तरश्लोकस्यावतारिका कर्तव्या ॥

  एकैकवृत्तेः प्रतिलोकपालं पतिव्रतात्वं जगृहुर्दिशां याः।
  वेद स्म गाथा मिलितास्तदासावाशा इवैकस्य नलस्य वश्याः॥ ११॥

 एकैकेति ॥ या गाथा एकैकवृत्तेरेकैकस्मिन्नेकस्मिन्निन्द्रे, अग्नौ, यमे, वरुणे च वर्तमानत्वात्प्रतिलोकपालमेकैकदिक्पालं प्रति दिशामैन्द्र्यान्यादीनां पतिव्रतात्वं जगृहुरङ्गीचक्रुः । प्राच्यादीनामिन्द्रादिप्रतिनियतदेववृत्तितया यत्पातिव्रत्यं तत्पातिव्रत्यं, तेनैवाकारेण या 'अत्याजि-(१३ सगै २८ श्लोक) इत्यादिगाथा अङ्गीचकुरित्यर्थः । ता गाथा मिलिताश्चतस्रोऽपि तदा प्रसादानन्तरमसावेकस्य केवलस्य नलस्य वश्या नलैकप्रवणा नलैकाभिधायिनीरेव वेद स्म अज्ञासीत् । का इव-आशा इव । मिलिता दिशो यथा नलस्य वश्याः। ऐन्द्र्यादीनां दिशामिन्द्राद्येकैकप्रवणत्वेपि सर्वासां दिशां चक्रवर्तिनलैकवश्यत्वं यथा, तथा गाथानामपीत्यर्थः । आशा अर्थिनां मनोरथाः वदान्यतया नलस्य यथा वश्या इति वा। 'दासाः' इति वा पाठः । भ्रान्तिदशायामुभयार्थत्वम् । प्रसादानन्तरं तु नलैकार्थत्वं वेद स्मेति भावः । दिशां पातिव्रत्यं गाथाभिर्गृहीतमित्यर्थः ॥

  या पाशिनैवाशनिपाणिनैव गाथा यमेनैव समाग्निनैव ।
  तामेव मेने मिलितां नलस्य सैषा विशेषाय तदा नलस्य ॥१२॥

येति ॥ 'किं ते-' (१३।३१) इत्यादिर्या गाथा पाशिनैव वरुणेनैव समा तुल्यार्था नत्वन्येनेन्द्रादिना, या च 'अत्याजि-' (१३।२८) इत्यादिर्गाथा अशनिपाणिना इन्द्रेणैव समा नत्वन्येन देवेन, या च 'यच्चण्डिमा-' (१३।२९) इत्यादिर्गाथा यमेनैव समा नत्व-