पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९८
नैषधीयचरिते

यस्मादेषां देवानां नलस्य संबन्धिनी तथा तादृशी अतिप्रसिद्धा छायापि कान्तिलेशोऽपि नास्ति । येषां यदीयकान्तिलेशोऽपि नास्ति ते तदीयां शोभां कथमाश्रयन्तामपि तु न कथंचिदित्यर्थः । अथ च -येषां नलसंबन्धिनी आदर्शादिस्थिता छाया प्रतिबिम्बमपि नास्ति । प्रतिबिम्बतुल्यास्ते न भवन्तीति यावत् । यदीयप्रतिबिम्बेनापि न साम्यं ते तदीयबिम्बश्रियं कथं लभन्तामित्यर्थः । अथ च-अस्य श्रियं किंचिद्भजन्तां नटवन्नलरूपधारणात्किंचिच्छोभन्ताम् । तथापि स्वाभाविकी नलस्य कान्तिरेषां नास्ति । अथ च-अस्य संपदं बहु भजन्तां तथापि नलस्य कान्तिरेषां नास्ति । संपदा तुल्यत्वेऽपि कान्त्या तुल्यत्वं नास्तीत्यर्थः । अथ च-अस्य श्रियं कियद्बहु भजन्ताम् । तथापि भूमौ तमःप्रकृतिश्छाया देहव्यवहितरविप्रभोपलक्षितः श्यामाकारो नलस्यास्ति एषां तेजोरूपत्वेन नास्ति । तेजोराहित्येन च नराणां विद्यत इत्यर्थः । तया भैम्या इति पूर्वोक्तप्रकारेण ईरयन्तीव कथयन्तीव, यत्राहं वर्ते स एव नल इति प्रकाशयन्तीव सा छाया नैषधे निरैक्षि दृष्टा तेषु त्रिदशेषु न । छायापि स्वाभावभावाभ्यां देवत्वनरत्वव्यञ्जिका जातेत्यर्थः । 'कियदिति क्रियाविशे[१]षणम् ॥

  चिह्नै मीभिर्नलसंविदस्याः संवादमाप प्रथमोपजाता ।
  सा लक्षणव्यक्तिभिरेव देवप्रसादमासादितमप्यबोधि ॥ २४ ॥

 चिह्नैरिति ॥ अस्या भैम्याः प्रथमोपजाता दूत्यकालोत्पन्ना, 'इतरनलतुलाभाक्-' इति पूर्वसर्गोक्ततर्कोत्पन्ना वा, देवीश्लोकानुसंधानोत्पन्ना वा, अयमन्त्य एव नल इति संविद्बुद्धिरमीभिः पूर्वोक्तैर्भूस्पर्शादिभिश्चिह्नैः संवादं स एवायं नल इत्यनुव्यवसायरूपमाप। पूर्वे मम 'नलोयम्' इति प्रत्ययो युक्त एव जात इति एतैश्चिह्नैर्निश्चितवतीत्यर्थः । अनन्तरं च सा भैमी देवत्वनरत्वज्ञापकानां लक्षणानां निमेषत्वभूस्पर्शादिचिह्नानां व्यक्तिभिः प्रकटैरेवासादितं प्राप्तं देवप्रसादमप्यबोधि । एतावत्पर्यन्तं भूस्पर्शादिचिह्नानि न दृष्टानि, इदानीं तु दृश्यन्ते, तस्मान्मम पूजया देवाः प्रसन्ना इत्यप्यजानादित्यर्थः ॥

  नले निधातुं वरणस्रजं तां स्मरः स्म रामा त्वरयत्यथैनाम् ।
  अपत्रपा तां निषिषेध तेन द्वयानुरोधं तुलितं दधौ सा ॥ २५ ॥

 नल इति ॥ अथ स्मरस्तां वरणस्रजं वरणमधूकमालां नले निधातुं निक्षेप्तुं एनां रामां भैमीं त्वरयति स्म शीघ्रं प्रेरयामास । अपत्रपा अन्यतो लज्जा च तां भैमीं निषिषेध निवारयामास । सर्वस्मिञ्जने पश्यति सति कथमहमेनं वृण इति लज्जावशात्तस्या बुद्धिरुदभूदित्यर्थः । तेन कारणेन सा भैमी द्वयानुरोधं स्मरलज्जयोराज्ञां प्रवृत्तिनिवृत्तिसंदेहं तुलितं समानमेव दधौ । भावसंधिवशादुत्कण्ठापत्रपाभ्यां मालानिक्षेपानिक्षेपदोलायिताभूदित्यर्थः । अन्योऽपि तुल्याभ्यां द्वाभ्यां विरुद्धकार्यद्वयार्थं प्रेषितो द्वयो-


  1. अत्र श्रियमिव श्रियम्, छायेव छाया' इति सादृश्याक्षेपान्निदर्शने । ताभ्यामङ्गाभ्याम् 'इतीरयन्तीव' इत्युत्प्रेक्षायाः संकरः' इति जीवातुः