रनुरोधादौदासीन्यमेवावलम्बते । तामिति पुनरुपादानं वाक्यान्तरत्वात्समर्थनीयम् । निषिषेध, 'स्थादिष्वभ्यासेन-' इति ष[१] त्वम् ॥
स्रजा समालिङ्गयितुं प्रियं सा रसादधत्तैव बहुप्रयत्नम् ।
स्तम्भत्रपाभ्यामभवत्तदीये स्पन्दस्तु मन्दोपि न पाणिपद्मे ॥२६॥
स्रजेति ॥ सा भैमी रसात्प्रीत्या स्रजा मधूकमालया प्रियं नलं समालिङ्गयितुं बहुप्रयत्नं भूयांसमुद्योगमधत्तैव, चकारैव । तु पुनस्तदीये पाणिपद्मे स्तम्भत्रपाभ्यां हेतुभ्यां मन्दोऽप्यल्पोऽपि स्पन्दश्चलनं नाभवत् ॥
तस्या हृदि व्रीडमनोभवाभ्यां दोलाविलासं समवाप्यमाने।
स्थि[२]तं धृतैणाङ्ककुलातपत्रे शृङ्गारमालिङ्गदधीश्वरश्रीः ॥ २७ ॥
तस्या इति ॥ अधीश्वरी समर्था भूयसी अधीश्वरस्य कस्यचिद्राज्ञो वा श्रीलक्ष्मीस्तस्या भैम्या हृदि स्थितं वर्तमानं शृङ्गारं शृङ्गाररसमालिङ्गत् । किंभूते हृदि-व्रीडमनोभवाभ्यां दोलाविलासमान्दोलजनितां क्रीडां समवाप्यमाने प्राप्यमाणे । कोटिद्वयसंबन्धात्प्रवृत्तिनिवृत्तिसंदेहं प्राप्त इत्यर्थः । तथा एणाङ्कश्चन्द्रस्तस्य कुलं कुलोत्पन्नो नल इत्यर्थः । स एवातपत्रं, धृतमेणाङ्ककुलातपत्रं येन तस्मिन् । शृङ्गाररस एव सम्राट् भैमी हृदयमेव सिंहासनं नल एव छत्त्रं लज्जाकामौ दोलाया उभयपार्श्वत आन्दोलनार्थं स्थितौ चामरधारिणौ वा । तस्या भावसंधिसंवलितः शृङ्गारो राजवदुज्जृम्भत इति भावः । दोलान्दोलने च भोगस्त्रियः प्रियमालिङ्गन्ति । अधीश्वरस्य नलस्य श्रीरिति वा। अत्र पक्षे ह्रीकामाभ्यां दोलायमानां भैमीं दृष्ट्वा म्लानो नलः पूर्वं विप्रलम्भशृङ्गारं प्राप्तः, ततः सापि तं तादृशं दृष्ट्वा तदीयशोभाङ्गीकारात्स्वयमपि तादृशी बभूवेति भावः । आन्दोलिकाछत्त्रचामरैरयं प्रभुरिति विज्ञायत इत्यर्थः । 'श्रितम्' इति पाठे हृदीति विषयसप्तमी॥
करः स्रजा सज्जतरस्तदीयः प्रियोन्मुखः सन्विरराम भूयः ।
प्रि [३]याननस्यार्धपथं ययौ च प्रत्याययौ चातिचलः कटाक्षः॥२६॥
कर इति ॥ स्रजा सज्जतरो नितरां सज्जः कण्ठे निक्षेप्तुमुच्चैःकृतमालः तदीयः करः प्रियोन्मुखो नलसंमुखं गन्तुं सोद्योगः सन्भूयः पुनः लज्जावशाद्विरराम निवृत्तः। तदीयोऽतिचलः कटाक्षश्च प्रियाननस्यार्धपथं ययौ च प्रत्याययौ च । दिदृक्षावशादर्धं मार्गं गतोऽपि लज्जात्रशान्मध्येमार्गं नलकटाक्षसंबन्धाच्च पुनः प्रत्यावृत्त इति भावः । अन्योप्यतिबलो गतागते करोति ॥