पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

विडं पीडयन्ती शिरो दूरमत्यर्थं नमयांचकार । अभिलाषप्रतिवन्धे दुःखितस्याङ्गुलिमेलनं स्वभावोक्तिः॥

करे विधृत्येश्वरया गिरां सा पान्या पथीन्द्रस्य कृता विहस्य ।
वामेति नामै[१]व बभाज सार्थं पुरंध्रिसाधारणसंविभागम् ॥ ३३ ॥


 कर इति ॥ गिरामीश्वरया वाग्देव्या विहस्याज्ञाननाटनाद्धास्यं कृत्वा तां करे विधृत्य इन्द्रस्य पथि पान्था पथिका (कृता) इन्द्रं प्रति वरणार्थं नीता सा भैमी पुरंध्रीणामन्यस्त्रीणां साधारणः समानः संविभागोंऽशो यस्य । पुरंध्रिषु वा । एवं(भूतं) सर्वस्त्रीवाचकं 'वामा' इत्येव नाम वक्रार्थत्वात्सार्थं बभाज भेजे । इन्द्रं प्रति देव्या नीयमाना वक्राभूदिति भावः । सार्थमेवेति वा । [२] पान्थेति पूर्ववत् । 'पाथा' इति पाठे 'पथे गत्याम्' इति धातोर्ज्वलादित्वाण्णे पथि गन्त्री कृतेत्यर्थः । पुरन्ध्रीति पूर्ववत् ॥

 तमेवार्थमुक्तिविशेषेण पुनराह-

विहस्य हस्तेऽथ विकृष्य देवी नेतुं प्रयाताभि महेन्द्रमेताम् ।
भ्रमादियं दत्तमिवाहिदेहे ततश्चमत्कृत्य करं चकर्ष ॥ ३४ ॥


 विहस्येति ॥ वाम्यानन्तरं देवी विहस्य किंचिद्धसित्वा एतां भैमीं स्वहस्तेन विकृष्य महेन्द्रमभि लक्षीकृत्य नेतुं प्रयाता प्रस्थिता इन्द्रं प्रापयितुं निर्गता । तत इन्द्रादिगमनोद्योगानन्तरमियं भैमी चमत्कृत्य किमियमिन्द्रवरणे मां प्रवर्तयतीति बुद्ध्या भीत्वा करं स्वहस्तं चकर्ष आचकर्ष । किंभूतमिव करम्-भ्रमाद्रज्जुभ्रान्तेरहिदेहे सर्पशरीरे दत्तमिव स्थापितमिवेत्युत्प्रेक्षा । सर्पदेहे भ्रमाद्दत्तं हस्तं यथा कश्चित्कर्षति तथेत्युपमा वा। ततो देवीकरादिति वा[३]

भैमीं निरीक्ष्याभिमुखीं मघोनः स्वाराज्यलक्ष्मीरभृताभ्यसूयाम्।
दृष्ट्वा ततस्तत्परिहारिणीं तां व्रीडं बिडौजःप्रवणाभ्यपादि॥३५॥

 भैमीमिति ॥ स्वाराज्यलक्ष्मीर्बिडौजःप्रवणा इन्द्रेऽत्यन्तमनुरक्ता स्वर्गाधिपत्यश्रीभैमीं मघोन इन्द्रस्याभिमुखीं निरीक्ष्य सपत्नीबुद्ध्या भैम्यामभ्यसूयामसहनत्वमभृत दधार । ततोऽनन्तरं तां तत्परिहारिणीमिन्द्रत्यागिनीं दृष्ट्वा इन्द्रेऽनुरक्ता सती व्रीडं लज्जामभ्यपादि प्राप । इयमिन्द्रं नाभिलषति वृथैव मयेर्ष्या कृतेति ललज्जेत्यर्थः । इयं भैमी स्त्रीरत्नभूता सती निर्गुणतयैनं परिहरति, तस्याहं प्रिया जातेति लज्जितेत्यर्थः । अभ्यपादि, कर्तरि चिण् ॥


  1. 'नामेव' इति पाठे इवस्य व्यवहितसंबन्धात् 'सार्थमिव' इत्युत्प्रेक्षयामः-इति सुखावबोधा
  2. 'पन्थोऽण् नित्यम्' (५।१।७६) इत्यण्प्रत्यये पथः पन्थादेशे च ङीप्-इति मल्लिनाथस्तु स्वरूपव्याक्रिययैव पराकृतः ।
  3. पूर्वोक्तार्थत्वादेवायं श्लोको जीवातौ न व्याख्यातः ।