पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०४
नैषधीयचरिते

इतीरिते विश्वसितां पुनस्तामादाय पाणौ दिविषत्सु देवी।
कृत्वा प्रणम्रां वदति स्म सा तान्भक्तेयमर्हत्यधुनानुकम्पाम्॥४२॥

 इतीति ॥ सा देवी इति पूर्वोक्तमीरिते सति विश्वसितां तां भैमीं पाणौ पुनरादाय धृत्वा दिविषत्सु देवेषु विषये नमस्कारवशात्प्रकर्षेण नम्रां कृत्वा तान्देवानिति वदति स्म । इति किम्-भवद्भक्तेयं भैम्यधुना नलवरणानुमतिरूपामनुकम्पां कृपामर्हतीति॥ एतद्वरणार्थमागतानामस्माकं नलवरणानुमतिर्दीयतामिति कथमुच्यत इत्याशङ्कां परिहरति-

इयुष्मान्वृणीते न बहून्सतीयं शेषावमानाच्च भवत्सु नैकम् ।
तहः [१]समेतानृपमेनमंशान्वरीतुमन्विष्यति लोकपालाः ॥ ४३ ॥

 युष्मानिति ॥ हे लोकपालाः, इयं भैमी यस्मात्सती पतिव्रतैकभर्तृकैव तस्माद्वहून्युष्मान्न वृणीते पतित्वेन नाङ्गीकरोति । भवत्सु मध्ये शेषावमानाच्च एकं न वृणीते । तत्तस्मात्सर्वैकवरणपक्षयोर्दोषदर्शनाद्धेतोरेकत्र नलस्वरूपे समेतान्मिलितानंशानंशभूतान्वो युष्मानेव एनं नृपं 'अष्टानां लोकपालानां वपुर्धारयते नृपः' इति वचनाद्युष्मद्रूपमेवैनं नलं नृपं वरीतुमन्विष्यति विचारयति । नले वृते पूर्वोक्तोभयदोषाभावान्नलमेव वरीतुं वाञ्छतीत्यर्थः । वो युष्माकं समेतानंशानेनं नृपमिति वा ॥

 परदारत्वादपीयं भवद्भिर्नाभिलषणीयेत्याह-

इभैम्या स्रजःसञ्जनया पथि प्राक्स्वयंवरं संजनयांबभूव ।
संभोगमालिङ्गनयास्य वेधाः शेषं तु कं हन्तुमियद्यतध्वे ॥ ४४ ॥

 भैम्या इति ॥ हे लोकपालाः, वेधाः मातृसेवानन्तरं स्वमन्दिरागमनवेलायां पथि स्रजो मालायाः सञ्जनया सङ्गेन षष्ठे सर्गे 'प्रसूप्रसादाधिगता-' (४९) इत्यादिकथितप्रकारेण भ्रान्तिदृष्टनलेषु मध्येऽस्य दूत्यगतस्य सत्यनलस्य कण्ठे निक्षेपणया कृत्वा भैम्याः स्वयंवरं प्राक्पूर्वमेव संजनयांबभूवाकृत । तथा तत्रैव सर्गे 'तथ्यं मिथस्तौ-' (५३) इत्याद्युक्तप्रकारेणास्य नलस्यालिङ्गनयालिङ्गनेन भैम्याः संभोगं बाह्यरतमपि व्यधत्त । अस्य संभोगमिति वा । अस्य स्वयंवरस्य संभोगं फलमालिङ्गनेन चकार । तस्मात्कं तु पुनः शेषं संभोगं हन्तुं विनाशयितुमियन्नलाकारधारणादिप्रकारेण यतध्वे प्रयत्नं कुरुथ । अपि तु न कोप्यवशिष्टोंशः। तस्माद्वृथाप्रयासो न कार्यः। किं त्वाज्ञैव दातव्येत्यर्थः । बाह्यरतस्यैवाभ्यर्हितत्वात्तत्राप्यालिङ्गनस्याभ्यर्हिततरत्वात्तस्य च संवृत्तत्वात्कं पुनः शेषं संभोगं हन्तुमियद्यतध्व इति वा । 'किम्' इति पाठे 'शेषा तु लोकस्थितिः' इति कामशास्त्रोक्तन्यायेन शेषं लोकस्थितिरूपं संभोगं पुनर्हन्तुमियत्किं यतध्व इति व्याख्येयम् । 'सञ्जनालिङ्गना'-इत्यत्र ण्यन्तत्वाद्युच्॥


  1. ‘समेतं नृपमंशमेनम्' इति जीवातुसंमतः पाठः ।