पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
चतुर्दशः सर्गः।

 इदानीं युक्त्यन्तरेण देवान्सान्त्वयति-

वर्णाश्रमाचारपथात्प्रजाभिः स्वाभिः सहैवास्खलते नलाय ।
प्रसेदुषो वेदृशवृत्तभङ्ग्या दित्सैव कीर्तेर्भुवमानयद्वः ॥ ४५ ॥

 वर्णेति ॥ वा पूर्वापरितोषे । पूर्वमसंभावितमेवोक्तं मया। किंतु नलाय कीर्तेर्दित्सैव वो युष्मान्भुवमानयत् । भैमीस्वयंवरदर्शनव्याजेन नलाय कीर्तिं दातुमेवात्रागमनं युष्माकं नतु भैमीवरणार्थमित्यर्थः । यतः-किंभूताय-स्वाभिः प्रजाभिः सह वर्णानां ब्राह्मणादीनामाश्रमाणां ब्रह्मचर्यादीनां स्मृत्युक्तादाचारपथात्सकाशादस्खलतेऽच्युताया किंभूतान् वः-ईदृशवृत्तभङ्ग्या प्रसेदुषः स्वाचाराचरणादेव निष्कपटदूत्यकरणाद्वा प्रसन्नान् । भैम्या इन्द्रादीन्विहाय सौन्दर्यादिना गुणेन नल एव वृत इति कीर्तिः ॥

इति श्रुतेऽस्या व[१]चसैव हास्यात्कृत्वा सलास्याधरमास्यबिम्बम् ।
भ्रूविभ्रमाकूतकृताभ्यनुज्ञेष्वेतेषु तां साथ नलाय निन्ये ॥ ४६॥

 इतीति ॥ इति पूर्वोक्ते देवीवचने श्रुते सत्यस्या देव्या वचसैव जाताद्धास्यास्मिताद्धेतोरास्यबिम्बं मुखचन्द्रं सलास्याधरं चञ्चलौष्ठं कृत्वा एतेषु देवेषु भ्रूविभ्रमरूपेणाकूतेनाशयज्ञापकेनेङ्गितेन कृताऽभ्यनुज्ञा नलवरणानुमतिर्यैस्तेषु सत्सु । अथानन्तरं सा देवी तां नलाय नलं प्रापयितुं नलार्थं वा निन्ये । पुनर्नलसंमुखीं चकारेत्यर्थः॥

मन्दाक्षनिस्पन्दतनोर्मनोभूदुष्प्रेरमप्यानयति स्म तस्याः ।
मधूकमालामधुरं करं सा कण्ठोपकण्ठं वसुधासुधांशोः ॥ ४७ ॥

 मन्दाक्षेति ॥ सा देवी मधूकमालया मधुरं सुन्दरं तस्याः करं वसुधासुधांशोः भूचन्द्रस्य नलस्य कण्ठोपकण्ठं कण्ठसमीपमानयति स प्रापयति स्म ।किंभूतायाः-मन्दाक्षेण लज्जया निस्पन्दा निश्चला तनुर्यस्याः । सस्तम्भाया इत्यर्थः । किंभूतं करम्-मनोभुवा नलविषयकामेन दुष्प्रेरमपि कामेनापि प्रेरयितुमशक्यम् । 'निष्पन्द-' इति पाठे पूर्ववत्षत्वम् । 'दुःप्रेरमपि प्रेरयति स्म' इति विरोधाभासः ॥

अथाभिलिख्येव समय॑माणां राजिं निजस्वीकरणाक्षराणाम् ।
दूर्वाङ्कुराढ्यां नलकण्ठनाले वधूर्मधूकस्रजमुत्ससर्ज ॥ ४८ ॥

 अथेति ॥ अथ करस्य नलकण्ठसमीपनयनानन्तरं वधूर्भैमी दूर्वाङ्कुराढ्यां मधूकमजं नलकण्ठनाल उत्ससर्ज निक्षिप्तवती । उत्प्रेक्षते-अभिलिख्य समर्प्यमाणां दीयमानां निजेनात्मना स्वीकरणं तत्सम्बन्धिनामक्षराणाम् ‘मया त्वं निश्चितं वृतोऽसि' इत्येवंरूपाणां वर्णानां राजिमिव । निश्चयज्ञापनार्थं हि पत्रं दीयते तदिवेत्यर्थः । मालासाञ्जनानन्तरं वाङ्गीकारे निश्चयो जातः । दूर्वाङ्कुराणां श्यामत्वादक्षरसाम्यम् । मधूकानि लिखिताक्षरसंधिस्थानीयानि । कण्ठस्य नालत्वान्मुखस्य कमलत्वम् ॥


  1. 'दित्सेव' इति पाठे उत्प्रेक्षा-इति सुखावबोधा । २ 'वचने च' इति पाठो जीवातुसंमतः ।