पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०८
नैषधीयचरिते

कारस्यापि मते छन्दस्येवैत्त्वं नशिमन्योः, न भा[१]षायाम् । 'अनेशन्नस्येषवः' इत्युदाहरणात् 'नशेरप्येत्त्वं छन्दस्येव' इत्यवसीयते । वृत्तिकृता तु नशिमन्योर्भाषाविषयत्वमङ्गीकत्य, अमिपचोश्छन्दोवि[२]षयत्वमङ्गीकृत्यैत्त्वं समर्थितम् ॥

 इदानीं नलस्य सात्त्विकभावान्वर्णयति-

तन्न्यस्तमाल्यस्पृशि यन्न[३]लस्य स्वेदं करे पञ्चशरश्चकार।
भविष्यदुद्वाहमहोत्सवस्य हस्तोदकं तज्जनयांबभूव ॥ ५६ ॥

 तदिति ॥ पञ्चशरः कामस्तया भैम्या निक्षिप्तं माल्यं मालामनुरागवशात्पुनः पुनः स्पृशतीति स्पृक् तस्मिन्नलस्य करे यत्सात्त्विकं स्वेदं धर्मजलं चकार, तत् भविष्यत उद्वाहरूपस्य महोत्सवस्य संबन्धि नियतपरस्वत्वापादनहेतुभूतं हस्तोदकं कन्यादानजलमेव जनयांबभूव । नलस्यापि सात्त्विकः स्वेदः प्रवृत्त इति भावः । स्वेदजलं न भवति किंतु हस्तोदकमिति ॥

तूलेन तस्यास्तुलना मृदोस्तात्कम्प्राऽस्तु सा मन्मथबाणवातैः।
चित्रीयितं तत्तु नलो यदुच्चैरभूत्स भूभृत्पृथुवेपथुस्तैः ॥ ५७ ॥

 तूलेनेति ॥ मृदोरतिसुकुमार्यास्तस्या भैम्यास्तूलेन कार्पासेन मृदुतया यस्मात्तुलना साम्यमस्तीति शेषः । तत्तस्मात्सा मन्मथवाणवातैः कामशरपुङ्खवायुभिः कम्पा सकम्पा अस्तु भवतु । कार्पासो हि लघुत्वाद्वातेन सकम्पो भवति, सा च तत्तुल्या, अतस्तस्याः कामबाणवातैः सकम्पत्वं युक्तमेवेत्यर्थः। तत्तु पुनश्चित्रीयितमाश्चर्यं कृतं यदुच्चैभूभृन्महाराजो धीरोपि स नलस्तैः कामबाणवातैः कृत्वा पृथुर्महान्वेपथुः कम्पो यस्यैवंविधोऽभूत् । तत्तैः कामबाणैश्चित्रं कृतम् । आश्चर्यं कृतमित्यर्थः। तूलस्य तूलतुल्यस्य वा वातैः कम्पो युक्तः । अत्युच्चस्य पर्वतस्य तु वातैः कम्पोऽतितरामाश्चर्यकारीत्यर्थः। उभावपि तुल्यानुरागौ सात्त्विककम्पयुक्तौ जाताविति भावः। चित्रीयितम् 'नमोवरिवश्चित्रङः क्यच्' इति क्यजन्तात् क्तः। 'क्यचि च' इतीत्वमकारस्य ।

दृशोरपि न्यस्तमिवास्त राज्ञां रागाद्दृगम्बुप्रतिबिम्बि माल्यम् ।
नृपस्य तत्पीतवतोरिवाक्ष्णोः प्रालम्बमालम्बनयुक्तमन्तः ॥ ५८ ॥

 दृशोरिति ॥ दृशोरम्बुनि क्रोधजनितेऽश्रुणि प्रतिबिम्बोऽस्यास्तीति एवंशीलं माल्यं सा मधूकमाला रागान्नलविषयात्कोधात् । अथच तज्जनितान्नेत्रलौहित्यात् । हेतोः सभासदां राज्ञां दृशोरपि न्यस्तमिव येन केनचिन्निक्षिप्तमिवास्त अतिष्ठत । नेत्रलौहित्य-


  1. अतएव 'चेष्टा व्यनेशन्निखिलास्तदास्याः' इति श्रीहर्षस्य तु प्रमादः, इति भाष्यप्रदीपोद्योते नागेशेनोक्तक्तम् ।
  2. 'नशिमन्योरमिपचोश्छन्दस्येत्वमलिट्यपि' इत्यानुपूर्वीं त्यक्त्वा 'नशिमन्योरलिट्येत्वम्, छन्दस्यमिपचोरपि' इत्यानुपूर्वीं रचयतो वार्तिककृतः 'नशिमन्योरलिट्येत्वं छन्दसि', 'अमिपचोरपि' इति विभागेनाव्याख्याय 'नशिमन्योरलिट्येत्त्वम्' 'छन्दस्यमिपचोरपि' इति विभागेन व्याचक्षाणस्य भाष्यकृतोऽपीदमेव संमतमिति प्रति भाति ॥
  3. 'तस्य कण्ठे' इति पाठो जीवातुव्याख्यातः ॥