पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०९
'चतुर्दशः सर्गः।

दर्शनादेवं ज्ञातमासीदिति यावत् । यथा कश्चित्क्रुद्धः सन्कस्यचिन्नेत्रे बलादङ्गुल्यादिशल्यं निक्षिपति, तदीयनेत्रस्य च लौहित्यं भवति, अश्रु च निर्गच्छति । तथा क्रोधाद्दर्शनमात्रेण तन्माल्यमेव तेषां द्वयोरपि नेत्रयोर्निक्षिप्तं शल्यमिवाभवत् । अत एव तयोर्लौहित्यमश्रु च जातमित्यर्थः । अर्थादयुक्तमेतत् । न केवलमन्तःकरणे शल्यं निक्षिप्तं, किंतु दृशोरपीत्यपिशब्दार्थः । अथ च-रागान्नलप्रीत्या भैम्या माल्यं यथा नलकण्ठे न्यस्तं तथा रागात्क्रोधान्नलस्पर्धिनां संमुखं पश्यतां राज्ञां नेत्रयोरपि शल्यमिव क्षिप्तमभूत् । यतो दृगम्बुप्रतिबिम्बिनलमसहमानाः सर्वेपि राजानो माल्यदर्शनमात्रेण क्रोधेर्ष्यावशाः संकुचितनेत्राः पराङ्मुखाः सन्तस्तां न पश्यन्ति स्मेति भावः । नृपस्य नलस्याक्षणोरन्तर्मध्यः कर्तृभूतः प्रालम्ब्यं प्रलम्बत्वं हर्षविस्फारित्वमालम्बताङ्गीचकार । एतद्युक्तम् । हर्षवशाद्धि नेत्रयोर्विस्फारत्वं भवति । 'प्रालम्बम्' इति पाठे प्रालम्बनं प्रालम्बः स एवार्थः। उत्प्रेक्षते-किंभूतयोरक्ष्णोः-तत्पीतवतोरिव माल्यं सादरं विलोकमानयोरिव । हर्षजनितं विस्फारत्वं विलोकनजत्वेनोत्प्रेक्षितम् । यद्वा-नलनेत्रमध्यस्तन्माल्यमेव प्रालम्बमृजुलम्बिनं हारविशेषमङ्गीचकार । सादविलोकनान्नेत्रयोरन्तःप्रतिबिम्बिताया मालाया ऋजुलम्बित्वं नेत्रयोर्विस्फारत्वमन्तरेण न घटत इति तदेवाक्षिपति-नलस्तु तां मालां विलोकयन्हर्षवशाद्विस्फारितनेत्रो जात इति भावः। तन्माल्यं रागाद्दृशोर्न्यस्तमिवास्त नेत्रमध्ये निक्षिप्तं यच्छल्यादि तदिवाभूत् । युक्तमेतत् । क्रोधाद्धि दृष्टमात्रं वस्तु शल्यमिव भवति । नेत्रयोश्च लौहित्यमश्रु च भवतीति युक्तमित्यर्थः । तन्माल्यं पीतवतोरिव नलनेत्रयोरन्तः रागात्प्रीतेर्हृष्टत्वं प्राप । एतदपि युक्तम् । प्रीतेर्हि हर्षों भवतीत्यपि युक्तमेवेत्यर्थ इति वा । 'प्रालम्ब्यम्' गुणवचनादित्वात्ष्यञ् । 'प्रालम्बम्' इति पाठे 'प्रालम्बो हारभेदे स्यात्' इति विश्वः । 'राज्ञा' इति पाठे आनन्दाश्रुणि प्रतिबिम्बितं माल्यं राज्ञा नलेनानुरागाद्दृशोरपि न्यस्तमिवास्त । न केवलं हृदि, किंतु नेत्रयोरपि धृतमित्यर्थः । अत एव तन्माल्यं पिबतोर्नलनेत्रयोर्मध्यः प्रलम्बत्वमालम्बतेति युक्तम् । दीर्घाया मालाया अन्तर्धारणार्थं नेत्रमध्योपि दीर्घो जात इति भावः ॥

स्तम्भस्तथालम्भितमां नलेन भैमीकरस्पर्शमुदः प्र[१] सादः।
कंदर्पलक्ष्यीकरणार्पितस्य स्तम्भस्य दम्भं स चिरं यथापत् ॥५९॥

 स्तम्भ इति ॥ मालानिक्षेपसमयजातो भैमीकरस्य स्पर्शस्तेन जाता मुद्धर्षस्तस्य प्रसादरूपः स्तम्भः सात्त्विकभावो नलेन तथाऽलम्भितमामतितरां प्राप्तः। तथा स नल: कंदर्पस्य लक्षीकरणार्थं शरव्यार्थमर्पितस्यारोपितस्य स्तम्भस्य दम्भं व्याजं वेध्यकाष्ठसादृश्यं चिरमापत् । कामवेध्यस्तम्भवद्भैमीकरस्पर्शजातसात्त्विकस्तम्भवशान्नितरां निर्व्यापारो जात इति भावः । नितरां कामपीडा सूचिता ॥

 इदानीमिन्द्रादिभिः स्वरूपं धृतमित्याह-

उत्सृज्य साम्राज्यमिवाथ भिक्षां तारुण्यमुल्लङ्घ्य जरामिवारात्।
तं चारुमाकारमुपेक्ष्य यानं निजां तनूमाददिरे दिगीशाः ॥६०॥


  1. 'प्रभावः' इति पाठो जीवातौ।