पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३०
नषधायचरिते

 उत्सृज्येति ॥ अथ नलवरणानन्तरमिन्द्रादयो दिगिन्द्रा दिक्पाला यान्तं गच्छन्त चारुं सुन्दरं तमलीकनलाकारमुपेक्ष्योन्मुच्य निजां सहस्रनेत्रत्वादिलक्षणां स्वीयां तनूमारान्नलसमीप एवाददिरेऽङ्गीचक्रुः । कः कामिव-कश्चिद्राजा साम्राज्यमुत्सृज्य क्षीणपुण्यतया चक्रवर्तिपदं त्यक्त्वा भिक्षामिव । तथा-कालवशाद्गच्छत्तारुण्यमुल्लङ्घ्यातिक्रम्य कश्चिज्जरामिव । उपमाद्वयेनेन्द्राद्याकाराणां नलाकारादतिहीनत्वं सूचितम् । साम्राज्यादिपरित्यागेन भिक्षाद्यङ्गीकारे यावद्दुःखं भवति तावन्नलाकारपरित्यागेन स्वाकाराङ्गीकारे तेषां जातमिति भावः । तत्र निजत्वमेव हेतुः । अन्योपि विद्वानसमीचीनमपि स्वीयमङ्गीकरोति, नतु समीचीनमपि परकीयम् । 'यातुम्' इति पाठे स्वर्गमिति शेषः। आददिरे, 'आङो दोऽनास्य-' इति तङ्॥

 यथाक्रमं तेषामाकारस्वीकारमाह-

मायानलत्वं त्यजतो निलीनैः पूर्वैरहंपूर्विकया मघोनः ।
भीमोद्भवासात्त्विकभावशोभादिदृक्षयेवाविरभावि नेत्रैः ॥ ६१॥

 मायेति ॥मायानलत्वमलीकनलत्वं त्यजतो मघोनो निलीनैः पूर्वं निजशक्त्या गोपितैः पूर्वैर्नेत्रैर्नलाङ्गसङ्गजनिता भीमोद्भवायाः सात्त्विकभावशोभा रोमाञ्चादिलक्ष्मीस्तस्या दिदृक्षयेव दर्शनेच्छयेव अहं पूर्वमहं पूर्वमिति यथा भवति तथा । यद्वा-अहं पूर्वमहं पूर्वमिति यस्यां क्रियायां सर्वे ब्रुवते साहंपूर्विका स्पर्धौत्सुक्याभ्यामाविरभावि वेगेन प्रकटीभूतम् । इन्द्रेण स्वनेत्रसहस्रं प्रकटितमिति भावः । अन्योपि दर्शनोत्सुकोऽहंपूर्विकया प्रकटो भवति । 'अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्मृता' इत्यमरः । अहंपूर्विकया, स्वार्थे कः । मत्वर्थीयष्ठन्वा ॥

गोत्रानुकूलात्वभवे विवाहे तत्प्रातिकूल्यादिव गोत्रशत्रुः ।
पुरश्चकार प्रवरं वरं यमायन्सखायं ददृशे तया सः ॥ ६२ ॥

 गोत्रेति ॥ तया स इन्द्रसखः प्रवरो ददृशे दृष्टः । स कः-गोत्रशत्रुरिन्द्रो यं वरं श्रेष्ठं प्रवरमेतन्नामानं सखायं पुरश्चकार पूजितवान् । अथच अग्रेसरमकरोत् । किं कुर्वन् वसिष्ठकश्यपाद्योर्वंशादिपुरुषयोरनुकूलत्वेनासमानत्वेन विवाह्यत्वेन वा भवे जायमाने । अथच-गोत्रयोर्जन्मकालीननाम्नोरानुकूल्येन तृतीयैकादशचतुर्दशमादिज्योतिःशास्त्रोक्तसद्राशिकूटसंभवेन जायमाने । विवाहे विषये । 'विवाहार्थमिति यावत् । आयन्स्वर्गात्स्वयंवरार्थमायन्भुवमागच्छन् । एतावन्तं कालमदृष्टोऽभूदिदानीं प्रकटो जात इत्यर्थः । सखायमिन्द्रमायनन्प्राप्नुवन्स प्रवरस्तया दृष्ट इति वा । प्रवरशब्दच्छलेन प्रवरपुरस्कार उत्प्रेक्षते-तस्य गोत्रानुकूलत्वविशिष्टस्य विवाहस्य प्रातिकूल्याविरुद्धत्वादिव । यतोऽयं गोत्रशत्रुरिति च्छलम् । नलभैमीगोत्रयोरनुकूलत्वेन जायमाने विवाहे स्वयमिन्द्रस्तत्प्रातिकूल्यं कृतवान् । ततश्च विशिष्टस्यापि प्रातिकूल्ये गोत्रयोरपि प्रातिकूल्यं जातम् । देवत्वाद्गोत्रराहित्याच्च (स्व)गोत्रभैमीगोत्रयोरप्यनुकूलत्वाभावात्प्रातिकूल्यम् । ततश्च गोत्रयोः प्रातिकूल्योप श्रेष्ठप्रवराङ्गीकरणेनापि यथा कथंचिद्भिवाहो घटिष्यत इति बुद्ध्या प्रवरमार्षेयं पुरश्चकारेत्यर्थः । यद्वा-गोत्रानुकूल-