पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१२
नैषधीयचरिते

 दृगिति ॥ अतदीयो यमसंबन्धी उच्चैर्नितरामुन्नतो वा गुणः सेवकः। उच्चैर्गुणा यस्यैवंविधो वा । कायस्थो राजसेवको गणकजातिविशेषश्चित्रगुप्तनामा लेखको दृग्गोचरः प्रकटोऽभूत् । अथच-काये देहे तिष्ठति कायस्थ एतदीयो नितरां प्रसिद्धः चित्रेणाश्चर्यभूतेन नलाकारेण गुप्तः छादित एवंभूतो गुणः श्यामवर्णः प्रकटोऽभूत् । एवं शब्दश्लेषसामान्येन सूचितयोद्वयोर्विशेषमाह -तत्र एको गणकस्तालपत्रस्योर्ध्व चोपरि मषीं द्रव्यान्तरेण द्रवीभूतं कज्जलं ददाति एवंभूतः। प्राणिनां शुभाशुभकर्मगणनाथै मष्या विलिखन्नित्यर्थः । अन्यः कृष्णगुणस्तु मषेरुपरि पत्रं ददत् मषेः सकाशादहं काल इति पत्रालम्बनं कुर्वन्प्रकटोऽभूदित्यन्वयः। अतिश्याम इत्यर्थः । चौ परस्परसमुच्चये त्वर्थे वा [१]

तस्यां मनोबन्धविमोचनस्य कृतस्य तत्कालमिव प्रचेताः।
पाशं दधानः करबद्धवासं विभुर्बभावाप्यमवाप्य देहम् ॥ ६७॥

 तस्यामिति ॥ तस्मिन्काले नलवरणानन्तरं विभुः स्वामी प्रचेता वरुण आप्यं पार्थिवतैजसाद्यवयवोपष्टब्धप्रचुरतरजलावयवनिर्मितमुपभोगयोग्यमम्मयं देहमवाप्य बभौ । किंभूतः--तस्यां भैमीविषये कृतस्य मनोबन्धविमोचनस्यान्तःकरणवन्धोन्मोचनस्य [पूर्व भैमीविषये ले(पा)शेन बद्धा निश्चलीकृत्य यत्क्षिप्तं मनः, तत्तया नले वृते सति प्रकृतचेतस्त्वात्पुनस्तत्क्षणमेवोन्मोचितम्] (तत्) तदीयमोचनस्यैव (तत्) संवन्धिनमिव करे बद्धवासं कृतवसतिं पाशं स्वायुधं दधानः । अन्य स्थापि तत्कालमेव कृतवत्सादिबन्धनविमोचनस्य हस्ते पाशो बन्धनरज्जुर्भवति । आप्यं पूर्ववत् ॥

सहद्वितीयः स्त्रियमभ्युपेयादेवं स दुर्बुध्य नयोपदेशम् ।
अन्यां सभार्यः कथमृच्छतीति जलाधिपोभूदसहाय एव ॥ ६८ ॥

 सहेति ॥ स जलाधिपो वरुणः । अथ च-जडस्वामी मूर्खतमः । इति विचार्यासहाय एवाभूत् । इति किम्- सहद्वितीयः ससहायः स्त्रियमक्ष्युपेयात, किं पुनरन्यामित्येवंरूपं नयोपदेशं नीतिमार्ग दुर्बुध्य दुष्टमिदमिति विचार्य 'मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपकर्षति ॥' तथा 'कामिनी कामयेदेव निर्जने पितरं सुतम् । सद्वितीयोऽक्ष्युपेयात्तामतः परिणतामपि ॥' इत्यादिवाक्यरूपं स्त्रीपुरुषयोरेकान्ते मदनसंभवादेकेन स्त्रियं प्रति न गन्तव्यम् , किंतु ससहायेनैवेति प्रतिपादनपरं नीत्युपदेशं द्वितीयया सहर्धामण्या वर्तमानः स्त्रियमुपेयादित्युपदेशपरं बुभ्द्वा । सभार्योऽन्यां कथमृच्छति प्राप्नोति, अपितु न कथंचित् । नहान्यस्यामनुरक्तमन्यानुसरति, न चान्ययानुसृतमन्या वृणोतीति नयस्य पूर्वमर्थ त्यक्त्वा द्वितीयमङ्गीकृत्यासहाय एवागत इत्यर्थः । अन्योपि जडो नयोपदेशं विपरीतमेव बुध्यते । 'द्वितीया सहधर्मिणी' इत्यमरः । सहद्वितीयः विकल्पत्वात्सत्वाभावः॥


  1. अत्र 'मषेरुपरि पत्त्रम्' इति प्रतीतेराभासीकरणाद्विरोधाभासोऽलंकारः' इति जीवातुः।