पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१४
नैषधीयचरिते

 किमाह स्म, इत्यत आह-

वैदर्भि दत्तस्तव तावदेष वरो दुरापः पृथिवीश एव ।
दूत्यं तु यत्त्वं कृतवानमायं नल प्रसादस्त्वयि तन्ममायम् ॥ ७२ ॥

 वैदर्भीति॥हे वैदर्भि, मया तावत्प्रथममेष पृथिवीश एव नल एव त्वत्संबन्धी वरः। अथ च देवप्रसादः । अर्थात्तुभ्यं दत्तः । किंभूतः-भूयोभिरपि तपोभिर्दुरापः । दत्तस्तावहत्त एवेति वा । इति भैमीमुक्त्वा-माह-हे नल, त्वं तु भैमीविषयेऽस्मत्सं. बन्धि दूत्यं यद्यस्मादमायं व्याजरहितं शुद्भ्या कृतवान्, तत्तस्मात्त्वयि विषये ममायं वक्ष्यमाण: प्रसादः । वरदानमित्यर्थः ।

प्रत्यक्षलक्ष्यामवलम्ब्य मूर्ति हुतानि यज्ञेषु तवोपभोक्ष्ये ।
संशेरतेऽस्माभिरवीक्ष्य भुक्तं मखं हि मन्त्राधिकदेवभावे ॥ ७३ ॥

 प्रत्यक्षेति॥हे नल। अहं प्रत्यक्षेण लक्ष्यां नेत्रदृश्यां मूर्ति तनुमवलम्ब्य धृत्वा तव यज्ञेषु हवींषि पुरोडाशादीन्युपभोक्ष्ये । ईदृशेन वरेण मम को लाभ इत्यत आह य है यस्माद्विद्वांसो यजमानादयश्च मखं यज्ञमस्माभिः साक्षाद्भुक्तमवीक्ष्य मन्त्रादधिकोऽतिरिक्तो देवस्तस्य सद्भावे विषये संशेरते । मीमांसका मन्त्रातिरिक्ता कर्मसमवायिनी देवता नास्त्येवेति वेदान्तिभिः सह विप्रतिपद्यन्ते । तस्मात्तद्विप्रतिपत्तिनिरासद्वारा तुभ्यं कीर्ति दातुं त्वदीययज्ञेषु हुतं प्रत्यक्षेणैव शरीरेण भोक्ष्य इति भावः । अग्नौ प्रक्षिप्तस्य हविषो भस्मसाद्भावमात्रस्य दर्शनान्मन्त्रप्रकाश्येन्द्रादीनां चादर्शनाकिमयं यज्ञः सत्योऽसत्यो वेति संदेहे प्रत्यक्षशरीरेण मखभोजने त्वयं संदेहो गमिष्यति । कस्मिन् सति-मन्त्रादधिके देवेषु भावे विश्वासे सति । 'मन्त्रमयी देवता' इत्येतत्पक्षापेक्षया प्रत्यक्षायां देवतायामधिकस्य मनोविश्वासस्य युक्तत्वादित्यर्थः । संशयनिवृत्तिरेव महांस्तव लाभो भविष्यतीति भावः । उपभोक्ष्ये, 'भुजोऽनवने' इति तङ् । अस्माभिरिति बहुवचनं देवतान्तराभिप्रायम् ॥

भवानपि त्वद्दयितापि शेषे सायुज्यमासादयतं शिवाभ्याम् ।
प्रेत्यास्मि कीदृग्भवितेति चिन्ता संतापमन्तस्तनुते हि जन्तोः॥७४॥

 भवानिति ॥ हे नल, भवानपि त्वद्दयिता भैम्यपि युवां शेषे भूलोकभोगनिमित्तस्य कर्मणः शेषेऽस्तमये सति शिवाभ्यामीश्वरपार्वतीभ्यां सायुज्यं सह ऐक्यमासादयतं प्राप्नुतम् । भवाञ्शिवेन, भैमी च शिवया सहैक्यं गच्छत्वित्यर्थः । स्वकर्मप्राप्तमिदं स्वयमेव भविष्यति किं वरदानेनेत्यत आह-हि यस्मात्प्रेत्य मरणं प्राप्याहं कीहक्प्रेतो देवो मनुष्यो वा, स्वर्गस्थो नारकी वा भविष्यामीत्यादिश्चिन्ता जन्तोः प्राणिनोऽन्तःकरणे संतापं महान्तमाधिं जनयति । वरदाने चिन्तानिवृत्तेर्मनस्तापनाशः फलमित्यर्थः । शिवाभ्याम् 'पुमान्स्त्रिया' इत्येकशेषः । 'अस्मि' इत्यहमर्थेऽव्ययं वा[१]


  1. कीदृग्भविता अस्मि इति वा । 'धातुसंबन्धे प्रत्ययाः' इति भविता इति भविष्यत्कालप्रत्ययः 'अस्मि' इति वर्तमानकलप्रत्ययेनाभिसंबध्यमानः साधुर्भवति'-इति सुखावबोधा।