पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१७
चतुर्दशः सर्गः।

स्मिताञ्चितां वाचमवोचदेनं प्रसन्नचेता नृपतिं प्रचेताः ।
प्रदाय भैमीमधुना वरौ तु ददामि तद्यौतककौतुकेन ॥ ८२ ॥

 स्मितेति ॥ प्रसन्नचेताः संतुष्टः प्रचेता वरुण एनं नृपतिं प्रति स्मिताञ्चितां हासविशदां वाचमवोचत्-हे नल, अहं भैमीं प्रदायाधुना तस्या भैम्या यौतकं युतकयोर्वधूवरयोः संबन्धि पारिवंर्ह वस्त्राभरणादि तस्य कौतुकेन तु पुनः द्वौ वरौ ददामि ।'कन्यां प्रदाय यत्किचिद्वरायात्र प्रदीयते । वेदिकायां स्थितायैव तद्यौतकमिति स्मृतम्॥' इति । युतं युग्मं युतमेव युतकं युतकसंबन्धि देयं यौतकम् । दायजा इति कान्यकुज्ञभाषायाम् ॥

यत्राभिलाषस्तव तत्र देशे नन्वस्तु धन्वन्यपि तूर्णमर्णः ।
आपो वहन्तीह हि लोकयात्रां यथा न भूतानि तथापराणि॥८३॥

 यत्रेति ॥ ननु हे नल, यत्र धन्वनि निर्जले मरावपि देशे तव जलाभिलाषः, तत्र देशे त्वदिच्छामात्रेण तूर्ण शीघ्रमर्णो जलमस्तु भवतु । जलस्यैव वरदाने हेतुमाह-हि यस्मादिह लोके पञ्चसु भूतेषु वा मध्ये आपो जलानि यथा लोकयात्रां लोकजीवनहेतुत्वं वहन्ति प्राप्नुवन्ति, तथापराणि भूतेजोवाय्वाकाशलक्षणानि भूतानि लोकजीवनहेतवो न भवन्ति । 'पानीयं प्राणिनां प्राणा विश्वमेतच्च तन्मयम्' इति । उदकस्येच्छानुसारित्वं परमः पुरुषार्थ इत्यर्थः । 'यात्रा तु जीवनोपाये' इति विश्वः ॥

प्रसारितापः शुचिभानुनास्तु मरुः समुद्रत्वमपि प्रपद्य ।
भवन्मनस्कारलवोगमेन क्रमेलकानां निलयः पुरेव ॥ ८४ ॥

 प्रसारीति ॥ हे नल, मरुर्निर्जलो देशो भवतो मनस्कारोऽभिलाषस्तस्य लवो लेशस्तस्योद्गमेनोदयेन बहूदकत्वात्समुद्रत्वं प्रपद्य प्राण्यापि पुरेव निर्जलत्वदशायां यथासीत् , तथैवास्तु भवतु । किंभूतः-(पूर्वम्) शुचिभानुना ग्रीष्मसंबन्धिना सूर्येण प्रसारी विस्तृतस्तापः संतोपो यस्य । (इदानीमपि) समुद्रत्वाच्छुभ्रकिरणेन चन्द्रेण प्रसारिता विस्तारिता आपो यस्य । शुचेर्वडवाग्नेः किरणेन ज्वालया विस्तारितः (री तापः) संतापो यस्येति वा । चन्द्रोदये समुद्रवृद्धिः, समुद्रे वडवाग्निर्युक्तः । तथा-(पूर्वम् ) क्रमेलकानामुष्ट्राणां निलयः स्थानभूतः। बाहुल्येन तेषां तदुद्भवत्वात् । ( इदानीम् ) भवन्मनस्कारोऽभिलाषस्तस्य लवो लेशस्तदुद्गमे सति नक्राणां यादोविशेषाणां ये मेलकाः सङ्घास्तेषां निलयः। क्रमेलकानां निलयो मरुर्भवन्मनस्कारलवोद्गमे सति समुद्रत्वं प्रपद्यापि पुरेव शुचिभानुना प्रसारितापो नास्तु, अपितु भवत्वेवेति वा । प्रसारिता आपो यस्येति, 'ऋक्पूर-' इत्यप्रत्ययः । मनस ऐकाग्र्यकरणं मनस्कारः। चित्तस्यैकाग्र्येण चिन्तनमिच्छाविशेषः। 'चित्ताक्षोगो मनस्कारः' इत्यमरः । 'अतः कृकमि-' इति सत्वम् ।