पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१८
नैषधीयचरिते


 वरान्तरमाह-

अम्लानिरामोदभरश्च दिव्यः पुष्पेषु भूयाद्भवदङ्गसङ्गात् ।
दृष्टं प्रसूनोपमया मयान्यन्न धर्मशर्मोभयकर्मठं यत् ॥ ८५ ॥

 अम्लानिरिति॥ हे नल, भवदङ्गसङ्गाद्धेतोः पुष्पेष्वम्लानिरसंकुचद्वर्णावयवत्वम्,आमोदभरश्च दिव्यः स्वर्गीयः परिमलातिशयश्च भूयात् । यद्यस्मात्प्रसूनोपमया पुष्पसादृश्येन। पुष्पसदृशमित्यर्थः । धर्मस्य पुण्यस्य शर्मणः सुखस्य चोभयस्य पुण्यसुखलक्षणस्य द्वयस्य कर्मठं करणे समर्थमन्यत्पुत्रादिकं वस्तु मया न दृष्टम् । किंतु पुष्पमेव । देवादिपूजनेन धर्म, शिरसि धारणेन परिमलेन वा सुखं च करोति । कर्मणि घटते, 'कर्मणि घटोऽठच्'॥

वाग्देवतापि स्मितपूर्वमुर्वीसुपर्वराजं रभसाइभाषे।
त्वत्प्रेयसीसंमदमाचरन्त्या मत्किं न किंचिद्ग्रहणोचितं ते॥८६॥

 वागिति ॥ वाग्देवता सरस्वत्यपि स्मितपूर्वम् । प्रसन्नत्वात्किंचित्स्मितं कृत्वेत्यर्थः । उर्व्याः सुपर्वराजं भूमीन्द्रं रभसाद्धर्षादिति बभाषे । (इति किम्-) 'हे नल, तव प्रेयसी मैमी तस्यास्त्वत्प्राप्तिजनितं संमदं हर्षमाचरन्त्याः कुर्वत्या मन्मत्तः सकाशात्किंचित्ते तव ग्रहणोचितं ग्रहीतुं योग्यं किं न । अपितु मत्सकाशादपि किंचिद्रहीतुमुचितमेव । त्वत्प्रियामित्रभूतया मया यहीयते तदप्यङ्गीकुर्विति । 'रभसो हर्षवेगयोः' इति विश्वः । संमदम् 'प्रमदसंमदौ हर्षे' इति साधुः।

 गर्वपरिहारपूर्व स्ववरस्य ग्रहणयोग्यत्वमेव समर्थयते-

अर्थो विनैवार्थनयोपसीदन्नाल्पोपि धीरैरवधीरणीयः ।
मान्येन मन्ये विधिना वितीर्णः स प्रीतिदायो बहु मन्तुमर्हः ॥

 अर्थ इति ॥ त्वया मत्समीपमागन्तव्यमिति या अर्थना तया विनैव उपसीदन्समीपमागच्छन्स्वयमेव वा भवनल्पोप्यर्थः । अर्थ्यतेऽर्थः । फलं स धीरैर्मनीषिभिर्नावधीरणीयो नावज्ञेयः किंत्वङ्गीकरणीय एव । यस्मान्मान्येन मानमर्हता पूज्येन विधिना ब्रह्मणा दैवेन वा वितीर्णो दत्तो याव्ञामन्तरेण लब्धत्वात्स प्रीतिदायः प्रीत्या दानमल्पोऽपि बहु मन्तुं गौरवेणाङ्गीकर्तुमर्ह उचित इत्यहं मन्ये । तस्मात्त्वयापि मया योऽल्पोऽप्यर्थों दीयते स ग्रहीतव्य एवेति भावः ॥ धीरैरल्पोऽप्यर्यो नावज्ञायते किं पुनर्महानित्यपेरर्थः। महतोपि वरस्याल्पत्वोक्तेर्गर्वपरिहारः। प्रीत्या दायः 'कर्तृकरणे कृता-' इति समासः। दीयते दायः कर्मणि घञ् ॥

 तमेव वरमाह-

अवामावामार्धे सकलमुभयाकारघटना
द्द्विधाभूतं रूपं भगवदभिधेयं भवति यत् ।