पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२०
नैषधीयचरिते

रायणात्मकं भवति । तद्वामनेत्रस्येन्दुरूपतया सेन्दुमम् । ध्याने चन्द्रकलोपेतत्वात्सेन्दुमम् । लक्ष्मीभागे च भूषणीभूतार्धचन्द्रयोगात्सेन्दुमम् । शिवादभिन्नत्वाद्धरमयं लक्ष्मीनारायणात्मकं तन्मे रूपं स्मर जप स्तुहि । यद्रूपमरूपा विष्णुरूपधारिणी वामा शक्तिर्वामार्धे सव्यभागे भवति । तद्धरमयं सामर्थ्याद्दक्षिणभागे शिवरूपमेवंभूतं हरिहरात्मकं मे रूपं स्मर । अन्यत्पूर्ववदिति वा । अर्धे पूर्वभागे अवा ओकारेण तथा अमा अनुस्वारेण, मा पवर्गपञ्चमव्यञ्जनेन वा । प्रणवेनेत्यर्थः । तथा-उत्तरभागे अवा ओकारेण, तथा-अमा अनुस्वारेण व्यञ्जनमकारेण वा प्रणवेनोपलक्षितम् । प्रणवद्वयसंपुटितमित्यर्थः । हरमयं हर इति नामरूपं मे मन्त्रं मया जप्यमानं रहस्यं स्मर चिन्तय जप । शिष्टं पूर्ववत् । हरस्य पक्षे तु-तन्मे रूपं मन्त्रमन्तर्मनसि स्मर शश्वज्जप च । स च ते सिध्यतु । कीदृशं मन्त्रम्-हरमयं हकाररेफरूपम् । तथा-निराकारं अश्च अश्च औ तयोः आकारः स्वरूपम् , स्वरूपे च आकारौ, निर्गतावाकारौ यस्मात्तन्निराकारम्। हकाररेफयोरुच्चारणार्थ यदकारद्वयं तद्रहितं 'ह्न' इति व्यञ्जनमात्रहकाररेफमयमित्यर्थः। तथा-सेन्दुं ई च इन्दुश्च ताभ्यां सह वर्तमानम् । ईकारेण, अर्धचन्द्रेण च युक्तम् । तथा-सकलं कला अनुस्वारस्तत्सहितम् । ह्रीकाररूपमित्यर्थः । सकलं चन्द्रकलो. पेतम् । सेन्दुं ईकारबिन्दुयुतमिति वा । अमलं शाक्तादिदोषरहितम् । तत्किम्-यद्रू- पमर्धे पूर्ववद्दक्षिणवामभागयोः अवा मा, अवा मा च, उपलक्षितं प्रणवद्वयसंपुटितम् । तथा यत्पूर्वमुभयोर्हकाररेफयोर्घटनात्संबन्धाद्विधाभूतं पृथग्भूतमसंयुक्तं (अज्व्यवहितं) सद्भगवान्हरोभिधेयो वाच्यो यस्य तादृग्भवति । प्रत्येकमकारयोगात् हर इति शिवनाम यद्भवति । यद्वा-पूर्व 'हर' इति द्विधाभूतम् , अनन्तरमकारद्वयव्यतिरेकेण व्यञ्जनरूपतया संयोगात्सकलम् । एकीभूतमित्यर्थः । तथा-भगवती भुवनेश्वरी अभिधेया यस्य तादृशमिति वा । 'शिवान्त्यो वह्निसंयुक्तो ब्रह्माद्वितयमन्तरा । तुरीयस्वरशीतांशुरेखातारासमन्वितः । एष चिन्तामणिर्नाम मन्त्रः सर्वार्थसाधकः। जगन्मातुः सरस्वत्या रहस्यं परमं मतम् ॥' इत्यागमात्प्रणवद्वयसंपुटितभुवनेश्वरीरूपं चिन्तामण्याख्यं मे सरस्वत्याः स्वरूपं मन्त्रं स्मर जप । स च मन्त्रस्ते सिध्यतु । शैवादिचिन्तामणिमन्त्रसंभवान्मन्मन्त्र इति विशेषणम् । हश्च रश्च मश्च ईश्च तादृशं हकाररेफमकारेकारसमाहाररूपम्, यद्यपीकारः पश्चान्निर्दिष्टस्तथापि मकारात्पूर्वमेव ज्ञातव्यः। तस्य पश्चानिर्देशो मन्त्रगोपनार्थः । तथा-सेन्टुं सचन्द्रं निराकारं निर्गताकारचतुष्टयस्वरूपं तादृशं मे मन्त्रं स्मर । इतरत्पूर्ववदिति वा । अत्र पक्षे आकाररहितो मन्त्रः। सकलं कश्च लश्च कलौ ताभ्यां सहितम् । अत्रापि निराकारं सेन्दुमिति संबध्यते । उभयाकारघटनादित्यादि पूर्ववत् । तथा च 'क्लीम्' इति कामराजबीजं सिध्यति । अस्मिञ्श्र्लोके टीकान्तरकृतो बहूनां शैववैष्णवादिमन्त्राणामुद्धारो विज्ञेयः । अत्र ग्रन्थविस्तरभिया कष्टकल्पनया च नोक्तः॥

 मन्त्रफलमाह

सर्वाङ्गीणरसामृतस्तिमितया वाचा स वाचस्पतिः
 स स्वर्गीयमृगीदृशामपि वशीकाराय मारायते ।