पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
प्रथमः सर्गः

त्वाल्लोहितयुक्तं हृत् अन्तरप्रदेशस्तस्मिन्विशन्ति यानि शुकास्यानि शुकमुखानि तान्येव स्मरस्य किंशुकानि पलाशपुष्पाण्येव आशुगा बाणा यस्याम् । नायिकापक्षे-दाडिमीफलतुल्यस्तनमध्ये विरहित्वात्स्फुटितमनुरागयुक्तं यद्धृदयं तस्मिन्विशन्तःशुकास्यतुल्या मदनकिंशुका आशुगा बाणा यस्याः। दाडिमीफलं स्वयमेव विदीर्यते । अथवा फलस्य परमात्मसाक्षात्कारलक्षणस्य स्तनं कथकम्।बोधकमिति यावत्। एवंभूतं यत्स्थानं तुरीयावस्थालक्षणं तस्माद्विदीर्णं च्युतं तुरीयावस्थामप्राप्तमेवंभूतं पूर्वं विषयेषु रागि सानुरागं यद्धृदयं तद्विशन्तः शुकाः (लक्षणया) तदुपदेशा योगाभ्यासेन हृदयसंलग्नास्तैः आस्याः क्षेप्याः स्मरकिंशुकाशुगा यस्यास्ताम् । विषयेभ्यः परावृत्तचित्ताम् । अनन्तरं प्रियस्य परप्रेमास्पदस्य सच्चिदानन्दघनस्य परमात्मस्वरूपस्य स्मृतेः संनिहितानन्तरप्राप्तस्यानुध्यानाच्छीघ्रतत्प्राप्तिसंभावनासंजातहर्षेणोद्गतरोमाञ्चाम् । विविधा योगा वियोगास्तद्वतीमष्टाङ्गयोगयुक्तां, विशिष्टां योगिनीं वा तद्वदैक्षत । सामर्थ्यादिवशब्दलाभः । वियोगिनीमिति 'संपृचा-' इत्यादिना विपूर्वाद्युजेः कर्मकर्तरि घिनुणि ङीप् । दाडिमीति जातिवाचित्वान्ङीष् । उत्पूर्वादीङः (देवादिकात् ) कर्तरि निष्ठायामुदीत इति । स्तनेति पदे पचाद्यच् । आस्येति अस्यतेर्हलन्तात्कर्मणि ण्यत् ॥

स्मरार्धचन्द्रेषुनिभे क्रशीयसां स्फुटं पलाशेऽध्वजुषां पलाशनात् ।
स वृन्तमालोकत खण्डमन्वितं वियोगिहृत्खण्डिनि कालखण्डजम् ८४

 स्मरार्धेति ॥ स नलः पलाशे पलाशपुष्पे वृन्तं प्रसवबन्धनमालोकताद्राक्षीत् । किंभूते पलाशे-स्मरस्यार्धचन्द्राकारो य इषुर्बाणस्तन्निभे तत्तुल्ये, तद्व्याजे वा । तथा - वियोगिहृत्खण्डिनि विरहिहृदयविदारके । अत एव क्रशीयसां कृशतराणामध्वजुषां पथिकानां पलाशनात् पलं मांसं तस्याशनाद्भक्षणात्स्फुटं प्रकटमेव पलाशे पलं मांसमश्नातीत्यन्वर्थसंज्ञके । पलाशशब्दस्यावृत्त्या योजनीयम् । किमिव-कालखण्डजं कालखण्डाज्जातमन्वितं वियोगिहृदि संबद्धं खण्डमंशमिवेति लुप्तोत्प्रेक्षा । दक्षिणपार्श्वस्थं कृष्णं मांसं कालखण्डम् । कृशादीयसुनि ‘र ऋतः-' इति रः ॥

नवा लता गन्धवहेन चुम्बिता करम्बिताङ्गी मकरन्दशीकरैः।
दृशा नृपेण स्मितशोभिकुड्मला दरादराभ्यां दरकम्पिनी पपे ॥८५॥

 नवेति ॥ दरादराभ्यामुपलक्षितेन नृपेण नलेन लता दशा नेत्रेण कृत्वा पपे सादरं ददृशे । पुष्पितलतादिदर्शनं विरहिणामसह्यमिति दरो भयम् । रमणीयदर्शनाच्चादरः। तिर्यगादिसंभोगवृत्तान्तावलोकनं विरहिणां कौतूहलमावहतीति नृपादरः। किंभूता लता-नवा नूतनपल्लवा । तथा गन्धवहेन कामितुल्येन वायुना चुम्बिता स्पृष्टा । अत एव मकरन्दसीकरैः पुष्परसकणैः करम्बितमङ्गं यस्याः सा । तथा स्मितेन विकसनेन शोभीनि कुड्मलानि मुकुलानि यस्याः। तथा वायुसंगमात् दरमीषत्कम्पते एवंशीला


१ 'अत्रानुप्रासरूपकोत्प्रेक्षालंकारसंकरः' इति साहित्यविद्याधरी । २ 'अत्रोत्प्रेक्षा रूपकं चालंकारः’ इति साहित्यविद्याधरी।