पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२१
चतुर्दशः सर्गः।

यस्मै यः स्पृहयत्यनेन स तदेवाप्नोति किं भूयसा
 येनायं हृदये स्थितः सुकृतिना मन्मन्त्रचिन्तामणिः ॥४९॥

 सर्वेति ॥ अयं पूर्वश्लोकोपदिष्टो मन्मन्त्रश्चासौ चिन्तामणिश्च । चिन्तामणिसंज्ञको मन्मन्त्र इत्यर्थः । सर्वकामदत्वान्मन्मन्त्र एव चिन्तामणिः। चिन्तामणितुल्यो मन्मन्त्र इत्यर्थः । स पुरश्चरणादिना क्षीणपापेन सुकृतिना येन साधकेन जपादिना हृदये चित्ते कृतः, स साधकः सर्वाङ्गानि व्याप्नुवन्ति सर्वाङ्गीणानि तैः शृङ्गारादिरसैरेवातिस्वादुत्वादमृतैः स्तिमितया आर्द्रया काव्यादिरूपया वाचा वाचस्पतिर्वागीशो भवति । तथास साधकः स्वर्गीयमृगीदृशां दिव्यानां मृगाक्षीणां रम्भादीनापि वशीकाराय मारायते कंदर्पायते । तं दृष्ट्वा उर्वशीप्रभृतयो देवाङ्गनाः कामपरवशा भवन्तीत्यर्थः । किं च-यः पुरुषः कृतपुरश्चरणोपि यस्मै फलाय स्पृहयति फलमभिलष्यति, सोऽनेन सकृत्पठितमात्रेण मन्त्रेण हेतुना तत्प्राप्नोत्येव । किं भूयसा कथनेन मन्त्रविशेषेण वा ॥नात्र संदेहः । तस्मात्त्वयाऽयमेव मन्त्रो हृदये धार्य इति भावः। 'सर्वाङ्गीणः' इत्यत्र तत्सर्वादे:-' इति खः । वाचस्पतिः 'षष्ठ्याः पतिपुत्र-' इत्यादिना सत्वम् । 'स्वर्गीय' इति नामधेयत्वात् 'वृद्धाच्छः' । मारायते 'कर्तुः क्यङ्' इति क्यङ् । यस्सै 'स्पृहेरीप्सितः' इति संप्रदानत्वम् । भूयसा 'बहोर्लोपो भू च बहोः ॥

पुष्पैरभ्यर्च्य गन्धादिभिरपि सुभगैश्चारुहंसेन मां चे-
 न्निर्यान्तीं मन्त्रमूर्तिं जपति मयि मतिं न्यस्य मय्येव भक्तः।
तत्प्राप्ते वत्सरान्ते शिरसि करमसौ यस्य कस्यापि धत्ते
 सोऽपि श्लोकानकाण्डे रचयति रुचिरान्कौतुकं दृश्यमस्याः॥

पुष्पैरिति ॥ यः साधकश्चारुणा हंसेन निर्यान्तीं गच्छन्तीमुह्यमानाम् । हंसवाहनामित्यर्थः । मन्त्रमूर्ति यन्त्रमध्यस्थितमन्त्रवर्णरूपेण परिणमदाकारां मन्त्रस्थान्तरशरीरां वामां देवीं सुभगैरतिमनोहरैः सुकुमारैः सुगन्धिभिश्च पुष्पैः गन्धधूपादिभिः षोडशोपचारैरप्यभ्यर्च्य, तथा--मयि मतिं न्यस्य विषयान्तरादाकृष्य ध्यानबलेन स्थिरीकृत्य देवतान्तरपरिहारेण मय्येव भक्तःसर्वात्मकतया मामेव सेवमानः सन् चेद्यदि जपति, तत्तर्ह्यसौ जापको वत्सरान्ते वत्सरावसाने प्राप्ते जाते सति यस्य कस्यापि स्त्रीबालमूकादेरपि शिरसि करं धत्ते स्थापयति सोपि स्त्रीबालादिरप्यकाण्डेऽसमयेऽकस्माद्वा रुचिरा- न्रसभावगुणालंकारयुतानदोषाञ्श्लोकान्रचयति । यस्तु सिद्धमन्त्रः, स विविधाञ्श्लोकान्रचयति किं वाच्यमित्यपेरर्थः । एतदस्याः कौतुकं दृश्यम् । अनुभवेनायमस्याश्चमत्कारो द्रष्टव्य इत्यर्थः । एवं संपूज्य हंसवाहनादिध्यानपूर्वमेकाग्रेण मनसा चेज्जपति, तर्हि वत्सरमात्रेण सिद्धमन्त्रः सन्नेवंविधं सामर्थ्यं लभत इति भावः॥

गुणानामास्थानीं नृपतिलकनारीतिविदिता
 रसस्फीतामन्तस्तव च तव वृत्ते च कवितुः ।