पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२२
'नैषधीयचरिते

भवित्री वैदर्भीमधिकमधिकण्ठं रचयितुं
 परीरम्भक्रीडाचरणशरणामन्वहमहम् ॥ ९१ ॥

 गुणानामिति ॥ हे नृपतिलक राजश्रेष्ठ नल, अहं वैदर्भीं भैमीम् । अथ च -वैदर्भीसंज्ञां रीतिमल्पपदसमासमसमासं वा रचनाविशेषं क्रमेण तव च नलस्य तव च वृत्ते त्वत्संबन्धिनि चरित्रे विषये कवितुः काव्यकरणोद्युक्तस्य श्रीहर्षादेश्चाधिकण्ठं कण्ठेऽन्वहं सदा परीरम्भस्यालिङ्गनस्य चुम्बनादिविलासस्य यदाचरणं करणं, तदेव शरणं जीवनोपायो यस्या एवंभूताम् । परीरम्भक्रीडया वा हेतुभूतया त्वच्चरणशरणमालिङ्गनप्रार्थनार्थं त्वच्चरणयोः पतन्तीम् । अथच-परीरम्भस्य श्लेषालंकारस्य क्रीडाया वक्रोक्तिविलासस्य आ सामस्त्येन यच्चरणं ज्ञानं तदेव शरणं यस्यामेवंविधाम् । अधिकं यथा तथा नितरां रचयितुं कर्तुं भवित्री भविष्यामि । किंभूताम्-गुणानां सौन्दर्यपातिव्रत्यादीनाम् । अथच-श्लेषप्रसादादीनाम् । आस्थानीं सभारूपामवस्थितिभूताम् । तथानारी इति स्त्री इति विदितां नारी चेत् , तर्हि भैम्येव नान्येति प्रसिद्धाम् । अथचरीतिषु पाञ्चाल्यादिषु विदिता, तथा न इत्यरीतिविदिता तथाविधापि न इति नारीतिविदिता तादृशीम् । पाञ्चाल्यादिरीतिषु मध्येऽतिप्रसिद्धामिति यावत् । तथातवान्तः हृदये रसेन स्वीयसौभाग्येन नलविषयानुरागेण स्वस्मिन्नलानुरागेण वा स्फीतामतिपुष्टाम् । अथच-अन्तः श्लोकमध्ये रसैः शृङ्गारादिभिः परिपुष्टाम् । एवंभूतां भैंमी त्वत्कण्ठालिङ्गनपरां त्वच्चरणशरणां त्वदेकवश्यां प्रत्यहमहं करिष्यामि । त्वच्चरितवर्णयितुश्च कण्ठे एवंभूतां वैदर्भीं रीतिमधिकं च रचयिष्यामि । वैदर्भीमेव रमणीयां रीतिमवलम्ब्य त्वच्चरितवर्णको यथा भवति तथाहं करिष्यामीति भावः। एतदपि वरदानम् । 'नर्' इति संबुद्ध्यन्तं पृथक्कृत्य राजश्रेष्ठ नः पुरुष इति संबोध्य पातिव्रत्यादिरीत्या विदितां पाञ्चाल्यादिरीतिषु च विदितामिति वा । 'श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥ इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः।' इत्यालंकारिकाः। 'आस्थानी क्लीबमास्थानम्' इत्यमरः । 'आतिष्ठन्त्यस्याम्-' अधिकरणे ल्युट् । टित्त्वान्ङीप् । 'ना रीति-' इत्यत्र पक्षे 'ढ्रलोपे-' इति दीर्घः । कवितुः 'कवृ वर्णने' 'कवृङ् स्तुतौ' इत्यस्य वा । अधिकण्ठं सप्तम्यर्थेऽव्ययीभावः॥

 वरान्तरमाह-

भवट्वृत्तस्तोतुर्मदुपहितकण्ठस्य कवितु-
 र्मुखात्पूण्यैः श्लोकैस्त्वयि घनमुदेयं जनमुदे।
ततः पुण्यश्लोकः क्षितिभुवनलोकस्य भविता
 भवानाख्यातः सन्कलिकलुषहारी हरिरिव ॥ ९२ ॥

 भवदिति ॥ मदुपहितकण्ठस्य मयाधिष्ठित(स्य)कण्ठस्य भवतो वृत्तस्य चरित्रस्य स्तोतुः कवितुः कवेः मुखात्सकाशात्त्वयि विषये पुण्यैश्चारुभिरमलैश्च श्लोकैः पधैर्यशो.