चतुर्दशः सर्गः भिश्च घनं निबिडं यथा तथा जलानां मुदे हर्षाय उदेयमुदेतव्यम् ॥ ततोऽनन्तरं तस्माद्वा हेतोर्भवान्क्षितिभुवनलोकस्य भूविष्टपजनस्य कलियुगसंबन्धिकलुषहारी पातकहरणशीलः सन्हरिः श्रीविष्णुरिव पुण्यश्लोकः पुण्यश्लोक इति ख्यातो भविता भविष्यति । यद्वा-पुण्यश्लोकः सन् क्षितिभुवनलोकस्य कलिकलुषहारी हरिरिव भविता। पुण्यौ चारू निर्मलौ श्लोकौ पद्ययशसी यस्येति विग्रहः । 'पुण्यश्लोको नलो राजा' इति पुण्यश्लोकत्वम् । 'कर्कोटकस्य नागस्य-' इत्यादिना कलिनाशकत्वमुक्त- म् । 'पद्ये यशसि च श्लोकः' इत्यमरः । उदेयम् । अचो यत्' इति यत् ॥
देवी च ते च जगदुर्जगदुत्तमाङ्ग- |
देवीति ॥ देवी च ते चन्द्रादयो भैमीं जगदुरिति ऊचुः । इति किम्-हे भैमि । वयं जगतस्त्रैलोक्यस्योत्तमाङ्गं शिरस्तस्य रत्नाय भूषणमणिभूतायै अतिसुन्दर्यै ते तुभ्यं कं कामं वितराम ददाम । अपितु किमप्यस्मद्दानयोग्यं नास्तीत्यर्थः । हि यस्माद्यद्यपि पतिव्रतया त्वया किंचिदपि वस्तु दुरापं न, किंतु पातिव्रत्यात्सर्वमपि त्वया सुप्रापमेव तथापि यस्तव पातिव्रत्यलोपं पातिव्रत्यभङ्गमिच्छुरभिलष्यति त्वया सह रन्तुमिच्छेत्स भस्मैवास्तु । बत कष्टम् । अनुचितकर्मा स इत्यर्थः । कामम् ; 'अकर्तरि च कारके इति कर्मणि घञ् । त्वया खलर्थयोगे षष्ठीनिषेधात्तृतीया । व्रतलोपम् 'न लोका-' इति षष्ठीनिषेधाद्धितीया ॥
वरान्तरमाह-
कूटकायमपहाय नो वपुर्बिभ्रतस्त्वमसि वीक्ष्य विस्मिता। |
कूटेति ॥ हे भैमि, त्वं नोस्मान्वीक्ष्य यतो विस्मितासि, अतो मनीषितामाकृतिमाकारं स्वेच्छाशरीरं प्राप्तुं तवापि हृदि मनसि विद्यया नानादेहस्वीकारहेतुभूतया मन्त्रादिशक्त्या उदीयतामुत्पद्यताम् । अस्माकं हृदि यथोदितं तथा तवापीत्यपिश- ब्दार्थः । अपिशब्दान्नलस्यापीति केचित् । किंभूतान्नः-कूटकायं स्वेच्छामात्रेण धृतं मायानलशरीरमपहाय त्यक्त्वा पुनर्दिव्यं निजं वपुर्बिभ्रतो धारयतः । अन्योपि प्रभुर्यद्वस्तुदर्शनात्सेवकादिः साश्चर्यो भवति तद्वस्तु तस्मै प्रयच्छति । उदीयतामिति भावे लः॥
इत्थं वितीर्य वरमम्बरमाश्रयत्सु |