पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२४
नैषधीयचरिते

उत्तिष्ठतां परिजनालपनैर्नृपाणां
 स्वर्वासिवृन्दहतदुन्दुभिनादसान्द्रः॥ ९५ ॥

 इत्थमिति ॥ इत्थं पूर्वोक्तप्रकारेण नलाय भैम्यै च वरं वितीर्य दत्त्वा देवीसहितेषु तेष्विन्द्रादिष्वम्बरं स्वर्गं प्रति गन्तुमुद्यतेषु प्रारब्धगगनगमनोद्योगेषु सत्सु क्षणात्क्षणमात्रेणोत्तिष्ठतां स्वं स्वं शिबिरं प्रति गन्तुमुत्थितानां नृपाणां परिजनालपनैः सेवकसंभाषणैर्जयजीवादिशब्दैः। राज्ञामेव वाऽश्वाद्यानयनार्थं परिजनान्प्रति भाषणैः कृत्वा विपुलो दशदिग्व्यापी प्रणाद उदलसत् । उदित इत्यर्थः । कीदृशः–भैमीनलविवाहोत्सवदर्शनात् , आगच्छन्नायकनायकहर्षाद्वा, स्वर्वासिवृन्दैर्देवसङ्घैर्हतानां दन्दुभीनां नादैः सान्द्रो निबिडीभूतः । देवेषु निर्गतेषु राजानोऽप्युत्थिताः, तेषां तत्सेवकानां च महान्कलकलश्च संजातः देवैश्च दिव्यवाद्यान्याहतानीत्यर्थः। वरम् जात्यभिप्रायेणैकवचनम् । सा च ते च तेषु, 'पुमान्स्त्रिया' इत्येकशेषः । उत्तिष्ठतामूर्ध्वकर्मत्वात्तङ् न ॥

न दोषं विद्वेषादपि निरवकाशं गुणमये
 वरेण प्राप्तास्त्रे न समरसमारम्भसदृशम् ।
जगुः पुण्यश्लोकं प्रतिनृपतयः किंतु विदधुः
  स्वनिश्वासैर्भैमीहृदयमुदयन्निर्भरदयम् ॥ ९६ ॥

 नेति ॥ प्रतिकूला नृपतयः पुण्यश्लोके विद्वेषाद्भैमीप्राप्तिजनितविशिष्टमत्सरादपि हेतोरसुन्दरदुःशीलनादिकं दोषं न जगुर्न जगदुः । यतो-नले निरवकाशमसन्तम् । यतः-गुणमये सौन्दर्यशीलादिगुणबहुले पुण्यश्लोके च । वैरिणापि सन्नेव दोषः प्रकाश्यते न त्वसन् । सुहृदा तु सन्नपि दोषो गोप्यते । तथा च-विद्वेषे सत्यपि गुणमयत्वाद्दोषलेशसंभावनाया अप्यभावाद्दोषं नोचुरित्यर्थः । तथा-बलाद्भैमीहरणार्थं समरसमारम्भः, तस्य सदृशं तद्योग्यमधिक्षेपपरुषभाषणादिकमपि नोचुः । यतः-यमवरेण प्राप्तास्त्रे लब्धदिव्याग्नेयाद्यस्त्रे स्वतःशूरे वरेण च नितरां दुर्धर्षे । तस्मादसामर्थ्यात्किंचिन्नोचुरित्यर्थः। किंतु--गत्यन्तररहिताः सन्तो निजासामर्थ्यकृपास्पदत्वसूचकैः स्वनिश्वासैः कवोष्णैर्निजमुखनासिकानिश्वसितैः कृत्वा भैमीहृदयं उदयन्ती निर्भरा बहुला दया यस्यैवंभूतमतिसकृपं विदधुश्चक्रुः । अतिदीनांस्तान्दृष्ट्वा भैमी नितरां सकृपाऽभूदिति भावः। भैम्या हृदयभूतं प्राणभूतं नलं स्वनिश्वासैः सकृपं चक्रुरिति वा॥

भूभृद्भिर्लम्भिताऽसौ करुणरसनदीमूर्तिमद्देवतात्वं
 तातेनाभ्यर्थ्य योग्याः सपदि निजसखीदापयामास तेभ्यः ।
वैदर्भ्यास्तेऽप्यलाभात्कृतगमनमनःप्राणवाञ्छां विजघ्नुः
 सख्याः संशिक्ष्य विद्याः सततधृतवयस्यानुकाराभिराभिः ॥ ९७
॥}}

भूभृद्भिरिति ॥ भूभृद्भी राजभिः शोकस्थायिभावस्य करुणाख्यस्य रसस्य । अथ च-