पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२५
चतुर्दशः सर्गः।

जलस्य । नदी तस्या मूर्तिमत्या देवताया भावं लम्भिता प्रापिता जलदेवतास्थाने स्थापिता तन्निश्वासैः करुणरसार्द्रीकृतचित्ता सती असौ भैमी सपदि ममाद्याप्राप्तेः एते नितरां दुःखिताः । तस्मादतिसुन्दरीर्मत्सखीरेतेभ्यो देहीत्यञ्जलियोजनेन । अर्थात्तातमेव । अभ्यर्थ्य संप्रार्थ्य निजसखीः स्वसहचरीर्योग्या रूपकुलशीलादिना तेषां भार्यात्वे समुचितास्तेन पित्रा तेभ्यो राजभ्यो दापयामास । तेभ्यः सखीदाने भीमं प्रावर्तयदित्यर्थः । ते राजानोऽपि वैदर्भ्या अलाभात्कृतं गमने देहत्यागविषये मनो यैस्तेषां प्राणानां वाञ्छामाभिः सखीभिर्विजघ्नुः । भैमीसखीलाभात्प्रारब्धगमनान्प्राणान्पुनः न्यवर्तयन्नित्यर्थः। यतः -किंभूताभिः-भैम्याः सकाशादिन्द्रादिदेवेभ्यो वरप्राप्तां यादृच्छिकशरीरनिर्माणादिरूपां विद्यां संशिक्ष्य सम्यगभ्यस्य सततं प्रत्यहं धृतो वयस्याया भैम्या अनुकारो याभिः। तुल्यशरीरकलाकौशलाभिरित्यर्थः । ततश्च भैमीप्राप्तिवुद्ध्यैव स्वप्राणान्रक्षितवन्त इति भावः । लम्भिर्द्विकर्मा । सख्याः 'आख्यातोपयोगे' इत्यपादानत्वम् ॥

अहह सह मघोना श्रीप्रतिष्ठासमाने
 निलयमभि नलेऽथ स्वं प्रतिष्ठासमाने।
अपतदमरभर्तुर्मूर्तिबद्धेव कीर्ति-
 र्गेलदलिमधुबाष्पा पुष्पवृष्टिर्नभस्तः ॥ ९ ॥

 अहहेति ॥ अथ राजभ्यः सखीदानानन्तरं मघोना इन्द्रेण सह श्री संपत्प्रतिष्ठामाहात्म्यं ताभ्यां समाने स्वं निजं निलयं स्थानमभिलक्षीकृत्य प्रतिष्ठासमाने जिगमिषति नले नभस्तो गगनात्पारिजातादिदेववृक्षाणां पुष्पवृष्टिरपतत् । अहहेति हर्षे । भैम्या नले वृते हृष्टैर्देवैर्नलस्योपरि पुष्पवृष्टिः कृतेत्यर्थः। उत्प्रेक्षते-बद्धा धृता मूर्तिर्यया सा मूर्तिबद्धा । यद्वा-मूर्त्या बद्धा युता साकारा । गलन्तः पतन्तोऽलयो भ्रमरा यत्र एवंविधं मधु एव बाष्पा (यस्याः) अधःपतनजनितदुःखमुक्तसनिश्वासजलाश्रुबिन्दवो यस्याः । एवंभूता । अमरभर्तुरिन्द्रस्य कीतिंरिव । पुष्पाणां शुभ्रत्वात्कीर्तित्वम् । भैम्या चावृतत्वादिन्द्रस्य कीर्तिर्गलितेति युक्तम् । स्वर्गादधःपाते दुःखादश्रु च युक्तम् । स्त्रीणां चाश्रु सकज्जलं भवति । मकरन्दो बाष्पस्थाने, तदनुगता भ्रमराः कज्जलस्थाने । समानशब्दस्य समासान्तर्गतत्वात्साक्षात्तुल्यार्थयोगाभावात् 'मघोना' इति तृतीयार्थमनुप्रासार्थं च साक्षात्सहशब्दप्रयोगः । प्रतिष्ठासमाने' इति 'समवप्र-' इति तङो विधानात् 'पूर्ववत्सनः' इति तङ्॥

खस्यामरैर्नृपतिमंशममुं त्यजद्भि-
 रंशच्छिदाकदनमेव तदाध्यगामि ।
उत्का स्म पश्यति निवृत्य निवृत्य यान्ती
 वाग्देवतापि निजविभ्रमधाम भैमीम् ॥ ९९
॥}}