पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२७
पञ्चदशः सर्गः

श्रीहर्षमिति ॥ शरदिजा शरत्कालीना ज्योत्स्ना चन्द्रिका तद्वदच्छा निर्मला निर्दोषा प्रसन्ना आह्लादजनिका च शोभना उक्तिर्यस्य तस्य श्रीहर्षस्य कवेः कृतौ महाकाव्ये चतुर्दशानां पूरणः सर्गः समाप्तः । चतुर्दशानां पूरणः इत्यर्थे 'तस्य पूरणे डट्' इति डट्। 'शरदिजा' इति 'सप्तम्यां जनेर्डः' इति डप्रत्यये 'प्रावृट्शरत्कालदिवां जे' इति सप्तम्या अलुक्॥

इति श्रीबेदरकरोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्रकाशे चतुर्दशः सर्गः॥

पञ्चदशः सर्गः।

अथोपकार्यां निषधावनीपतिर्निजामयासीद्वरणस्रजाञ्चितः।
वसूनि वर्षन्सुबहूनि बन्दिनां विशिष्य भैमीगुणकीर्तनाकृताम्'॥१॥

अथेति ॥ अथ भैम्या स्वयंवरे वरणस्रजा मधूकमालयाञ्चितः पूजितः स निषधावनीपतिःनलोऽपि (एवं देवान्प्रसाद्य भैम्या नले वृते ताभ्यां वरान्दत्त्वा देवेषु प्रारब्धस्वर्गगमनेषु सत्सु अनन्तरं) भीमेन स्वनिवासार्थं रचितां निजां स्वीयां नलेनैव वा कारितां पटमयद्रव्यादिरूपां उपकार्यामयासीत् ययौ । किं कुर्वन्-अन्येषां बन्दिनां साधारण्येन सुबहूनि वसूनि वर्षन् । भैमीगुणानां कीर्तनम् आ सामस्त्येन कुर्वन्तीति कृतः तेषां तु बन्दिनां विशिष्य विशेषं कृत्वा वर्षन्नन्यापेक्षया तेभ्योऽधिकं प्रयच्छन् । बन्दिनां संबन्धसामान्ये षष्ठी॥

 धनदानस्य सुबहुत्वमेव विवृणोति-

तथा पथि त्यागमयं वितीर्णवान्यथातिभाराधिगमेन मागधैः ।
तृणीकृतं रत्ननिकायमुच्चकैश्चिकाय लोकश्चिरमुञ्छमुत्सुकः ॥२॥

तथेति ॥ अयं नलः पथि त्यागं कीर्त्यर्थं साधारण्येन दीयमानं धनं तथा तेन प्रकारेण वितीर्णवान् यथा येन प्रकारेण मागधैर्बन्दिजातिविशेषैरतिभाराधिगमेनातिशयगुरुत्वप्राप्त्या बहुतरलब्धधनस्य वोढुमशक्तेः परिपूर्णत्वाच्च निरपेक्षत्वात्तृणीकृतं तृणवत्त्यक्तं रत्ननिकायं रत्नसमूहमुच्चकैः नितरामुत्सुकोहमहमिकया ग्रहीतुं प्रवृत्तो लोकः उञ्छं भूपतितमणुकणगणं चिरं बहुकालं चिकाय उच्चित्य आददे । रत्ननिकायमेव उञ्छमिति रूपकम् । उच्चकैर्बहुमूल्यं रत्ननिकायमिति वा । अनेनास्य दानशूरत्वमुक्तम् । उञ्छो धान्यस्य कणश आदानम् । रत्नादाने त्वौपचारिकः प्रयोगः । त्यज्यते त्यागः । येन


[१][२] ३< ref> 'उञ्छकः' इति पाठे 'उञ्छति उच्चिनोति उञ्छकः' इति सुखावबोधा।</ref>

  1. 'गुणवर्णनाकृताम्' इति क्काचित्क: पाठः-इति सुखावबोधा |
  2. 'अथ' इत्युत्तरम् ‘एवं देवान्' इत्यारभ्य 'अनन्तरम्' इत्यन्तः पाठ उचितः । अर्थभूतत्वात् ।