वदन्ति । ततश्च निर्दोषत्वमेवागतमित्यर्थ इति वा । अथ च-सत्ये परब्रह्मस्वरूपे श्रीरघुनाथे विषये असत्यसाधौ दूषणाख्ये राक्षसे अवद्यमलीकं दुष्टमप्रियं कर्तुमुद्यमः
किं कदाचिन्न भवेत् । अपितु-श्रीरामचन्द्रे विषयेऽपि दूषणाख्येन राक्षसेनाप्रियं कर्तुमुद्यमः कृत एव । तथापि यथा स निर्दोषः, तथा तौर्निन्दायां कृतायामपि निर्दोषावेव
तावित्यर्थः । यद्वा-वह्नौ सीतायाः पातिव्रत्यपरीक्षणादपरीक्ष्यपरिग्रहादिदोषेऽसत्यपि
परब्रह्मस्वरूपे श्रीरघुनाथे कदाचित्तमेकं दोषमाधातुं प्रयत्नः किं न स्यात् । अपि तु
लोकः प्रयतत एव । तथापि यथा तत्त्वतः स निर्दोष एव तथा तावपीति भावः । वैरिभिः सत्यमप्युक्तमलीकं भवति मृषोद्यं तु किमुतेति सूचितम् । द्विषां कर्तरि षष्ठी ॥
विदर्भराजोऽपि समं तनूजया प्रविश्य हृष्यन्नवरोधमात्मनः । |
विदर्भेति ॥ विदर्भराजोऽपि उत्तमजामातृप्राप्त्या हृष्यन्सन् तनूजया समं सह आत्मनोऽवरोधमन्तःपुरं प्रविश्य भैमी नलं वरिष्यति, अन्यं वेति अनुजातः पुनः पुनर्जातः संशयो यस्यास्तां देवीं भैमीमातरं शशंस इत्यवोचत् । इति किम्-हे उत्सुके, जामातरि नले उत्कण्ठिते त्वं नलं जामातरं भैमीपतिं प्रतीच्छ जानीहि ॥
नामग्रहणमात्रेण सूचितस्य नलस्य गुणगणं वर्णयति-
तनुत्विषा यस्य तृणं स मन्मथः कुलश्रिया यः पवितास्मदन्वयम् । |
तन्विति ॥ यस्य तनुत्विषा कायकान्त्या हेतुना स सौन्दर्येण प्रसिद्धो मन्मथः तृणमिवाकिंचित्करः। तथा-यः कुलश्रिया वंशपरिशुद्ध्या कृत्वा कौलीन्यात्प्रसिद्धतराणामस्माकमप्यन्वयं पविता पावनं कर्ता । अस्मत्तोऽपि महाकुलीन इत्यर्थः । जगत्त्रय्या नायकमेलके वरसमूहमध्ये ईदृशमीदृग्गुणं नायकरत्नं वरं परिणेतारं विवेक्तुं निर्णेतुं परं केवलं तव सुता वेद जानाति, नान्योऽस्मदादिः । न विद्यते परः श्रेष्ठो यस्मादिति वरविशेषणं वा । पविता लुट् ॥
सृजन्तु पाणिग्रहमङ्गलोचिता मृगीदृशः स्त्रीसमयस्पृशः क्रियाः । |
सृजन्त्विति ॥ स भीम इत्याह स्म च, निर्ययौ चान्तःपुरान्निरगाच्च । चकारो विवाहत्वरां द्योतयति । इति किम्-हे मृगीदृशो हरिणेक्षणाः सुवासिन्यो भवत्यः पाणिग्रहो विवाहस्तद्रूपे मङ्गल उचिताः । तथा-स्त्रीणां समय आचारः तं स्पृशन्ति ता योषिदाचारप्राप्ता दुर्गादिकुलदेवतापूजातैलयवारम्भादिक्रियाः सृजन्तु कुर्वन्तु । वयं तु पुनः श्रुतिस्मृतीनां विधीन् शूर्पेण जुहोतीत्यादीन , मधुपर्कादिकांश्च, वैदिकान् ,
- ↑ १ 'तनुश्रिया' इति जीवातुसंमतः पाठः ।