पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३१
पञ्चदशः सर्गः।

 निपीतेति ॥ ततो दूतप्रत्यागमनानन्तरं निपीतं सादरं श्रुतं दूतालपितं दूतवचनं येन स विदर्भभर्ता भीमो धृतादरः सादरः सन् नलमागमयांवभूव प्रतीक्षितवान् । पुनरपि दूतैरानाययति स्मेति वा । यथा निशावसाने ब्राह्मे मुहूर्ते श्रुता प्राभातिकी ताम्रचूडस्य कुक्वुटस्य वाक् येन स रथाङ्गश्चक्रवाको धृतादरः सन् तपनं सूर्यं प्रतीक्षते कदा वा उदेष्यतीति । 'कृकवाकुस्ताम्रचूडः' इत्यमरः॥

क्वचित्तदालेपनदानपण्डिता कमप्यहंकारमगात्पुरस्कृता।
अलम्भि तुङ्गासनसंनिवेशनादपूपनिर्माणविदग्धयादरः ॥ १२ ॥

 क्वचिदिति ॥ तदा नलागमनसमये क्वचित्स्थाने लेपनदाने सुधालेपचित्रादिकर्मणि पण्डिता कुशला काचिद्रमणी पुरस्कृता तन्निर्माणार्थमेव संभाविता सती स्वप्रार्थनावशात्कमप्यहंकारमभिमानमगात्प्राप । अनिर्वचनीयं गौरवं धृत्वा सुधालेपादि चकारेत्यर्थः । चतुष्कनिर्माणार्थं हरिद्राचूर्णमिश्रितं तण्डुलपिष्टं तस्य दाने आलेपकरणे कुशला । क्वचिद्विजने रमणीये वा प्रदेशे तस्या भैम्या (आलेपनदाने) अङ्गोद्वर्तने कुशलोत वा । तयोर्भैमीनलयोर्वा । तथा-क्वचित्प्रदेशेऽपूपनिर्माणे मण्डकरचनायां विदग्धया चतुरया कयाचित्तुङ्गासन उच्चचतुरङ्गाद्यासने संनिवेशनादुपवेशनाद्धेतोरादरो गौरवमलम्भि प्राप्तम् । उच्चासनसंनिवेशनादरो वह्नितापभयाभावः प्राप्त इति वा । जातावेकवचनम् । काश्चिच्चित्रादिकर्म काश्चिच्चापूपादिनिर्माणं चक्रुरिति भावः ॥

मुखानि मुक्तामणितोरणोद्गतैर्मरीचिभिः पान्थविलासमाश्रितैः।
पुरस्य तस्याखिलवेश्मनामपि प्रमोदहासच्छुरितानि रेजिरे॥१३॥

 मुखानीति ॥ तस्य पुरस्य, तथा तत्संबन्धिनामखिलवेश्मनामपि मुखानि द्वारोपान्तरूपाण्याननानि मुक्तायुक्तानां मणीनां रत्नानाम् , मुक्तानां च मणीनां च वा, तोरणास्तेभ्य उद्गतैर्निर्गतैरत एव पान्थविलासमुत्थाय दूरं प्रसर्पणशीलानां पान्थानां विलासमाश्रितैर्मरीचिभिः किरणैः कृत्वा वरागमनसमये प्रमोदहासेन हर्षजहास्येन छुरितानि मिश्रितानीव रेजिरे । सर्वाण्यपि पुरद्वाराणि गृहद्वाराणि च मुक्तामणितोरणैरलंकृतानि । सर्वं च पुरं सानन्दमभूदिति भावः । हास्यं मुखे भवति । तस्य पुरस्य संबन्धिनां वेश्मनामिति व्याख्याने न केवलं पुरलोकानां मुखानि प्रमोदहासच्छुरितानि, किंतु गृहाणामपीत्यपेरर्थः । 'तोरणात्तदा-' इति पाठे तोरणात्पान्थविलासमाश्रितैरु- त्थाय दूरं प्रसर्पणशीलैरिति व्याख्येयम् ॥

पथामनीयन्त तथाधिवासनान्मधुव्रतानामपि दत्तविभ्रमाः।
वितानतामातपनिर्भयास्तदा पटच्छिदाकालिकपुष्पजाः स्रजः ॥ १४ ॥

 पथामिति ॥ पटच्छिदाभिर्वस्त्रच्छेदैर्निर्मितान्याकालिकान्यसमयजानि यस्मिन्काले यानि न भवन्ति तादृशानि पुष्पाणि तेभ्यो जातास्तन्निर्मिताः स्रजो मालास्तदा वरागमनसमये पथां पुरमार्गाणां वितानतामुल्लोचतामनीयन्त प्रापिताः । किंभूताः-यथा