पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३६
नैषधीयचरिते

धिचकास्ति, किं तु सानयेति तात्त्विकविचारचातुरी कस्यास्तु पुनः सख्या जाता इत्यर्थादपितु न कस्याश्चित् । प्रयासेनालंकृत्य पुनः पुनः विलोक्यापि विज्ञाभिरपि अनया मण्डनं मण्डितम् , मण्डनैर्वा इयं मण्डितेति तारतम्यं न ज्ञातमेव । परं भूषणानां वैयर्थ्यम् , साधारणत्वं वा, अधिकशोभाकारित्वं वेति किमपि न निश्चितम् । किं तु भ्रान्ता एव जाता इत्यर्थ इति वा । तस्या निरतिशया कान्तिर्जातेति भावः । पूर्वोक्ता विचारचातुरी कस्यास्तु कस्याश्चिदेव विदुष्याः, न तु सर्वस्या इति वा । अलंकृतं तमण्डनमिति विचारचातुरी कस्यचिन्मल्लक्षणस्य महाप्राज्ञस्य, कस्य ब्रह्मणो । मया श्रीहर्षेण ब्रह्मणा वैषा निर्णेतुं शक्यते नान्येनेत्यर्थ इति वा । कस्य पुनर्न जाता, अपि तु सर्वस्यापीति वा ॥

 तिलकप्रसाधनं वर्णयति--

विधाय बन्धकपयोजपूजने कृतां विधोर्गन्धफलीबलिश्रियम् ।
निनिन्द लब्धाधरलोचनार्चनं मनःशिलाचित्रकमत्य तन्मुखम् ॥ २६॥


 विधायेति ॥ लब्धं प्राप्तमधराभ्यां लोचनाभ्यां चार्चनं पूजनं येन । ओष्ठनेत्रेण रमणीयमिति यावत् । एवंविधं तन्मुखं भैमीमुखं कर्तृ माङ्गलिकं मनःशिलाख्यगौरधातुविशेषनिर्मितं चित्रकं तिलकमेत्य प्राप्य बन्धूकेन पयोजाभ्यां नीलोत्पलाभ्यां च पूजने पूजाद्वयं कृत्वाऽनन्तरं कृतां विधोश्चन्द्रसंबन्धिनीं गन्धफल्या चम्पककलिकया बलिः पूजा तज्जनितां श्रियं कान्तिं निनिन्द । यदि कोपि बन्धूकोत्पलैश्चन्द्रस्य पूजां कृत्वा चम्पककलिकां चन्द्रस्य शिरसि न्यस्यति, तदा तां चन्द्रलक्ष्मीं न्यक्करोतीत्यभूतोपमेत्यर्थः। बन्धूकस्याधरस्य, नीलोत्पलयोर्लोचनयोः, चम्पककलिकाया मनःशिलातिलकस्य, चन्द्रस्य वदनस्य, चोपमोपमेयभावः । 'चम्पको हेमपुष्पकः । एतस्य कलिका गन्धफली' इत्यमरः॥

 श्लोकत्रयेण केशप्रसाधनं वर्णयति-

महीमघोनां मदनान्धतातमीतमःपटारम्भणतन्तुसंततिः ।
अबन्धि तन्मूर्धजपाशमञ्जरी कयापि धूपग्रहधूमकोमला ॥२९॥

 महीति ॥ कयापि केशप्रसाधनचतुरया सख्या तस्या भैम्याः मूर्धजपाशः केशपाशस्तद्रूपा सौगन्ध्यादैर्ध्याच्च मञ्जरी प्रथमोद्भिन्नकलिकाङ्करदण्डोऽबन्धि संयता । किंभूता मञ्जरी-महीमघोनां भूमीन्द्राणां मदनेन कामविकारेणान्धता विवेकशून्यता सैव तमी तामसी रात्रिस्तस्यास्तमोरूपस्य पटस्य आवरकत्वादविवेकरूपस्य आरम्भणे निर्माणे विषये तन्तुसंततिः सूत्रपरम्परा तानकरूपा । तथा-धूपग्रहस्य धूपग्रहणसाधनस्य सच्छिद्रस्य धातुमयस्य करण्डकादेः संबन्धिना दह्यमानकर्पूरागरुचन्दनादिपरिमलबहुलेन धूमेन कोमला ईषच्छुष्का तद्वदतिसुन्दरी नितरां श्यामा । राजानो रात्रौ नीलं पट्टवस्त्रादिकं परिधाय विचरन्तीति वा । नलपराया अपि तस्याः केशपाशं दृष्ट्वा राज्ञां विवेकशून्यता भवतीति भावः ॥