पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३७
पञ्चदशः सर्गः।

पुनःपुनः काचन कुर्वती कचच्छटाधिया धूपजधूमसंयमम् ।
सखी स्मितैस्तर्किततन्निजभ्रमा बबन्ध तन्मूर्धजचामरं चिरात् ॥ ३० ॥

 पुनःपुनरिति ॥काचन सखी तस्या भैम्याः मूर्धजः केशपाशस्तल्लक्षणं सूक्ष्मघनप्रलम्बकृष्णत्वसाम्याच्चामरं चिराद्बहुना कालेन ववन्ध । चिरकाले हेतुमाह-किंभूता- कचच्छटाधिया भैमीकेशपाशभ्रान्त्या सादृश्याद्भूपजस्य धूमस्य मुहुः संयमं बन्धनं कुर्वती । तथा तद्भान्तिदर्शिनीनां सखीनां स्मितैरन्योन्यमुखविलोकनपूर्वविलसदीषद्धास्यैः कृत्वा तर्कितः स केशपाशभ्रमेण धूपजधूमसंयमनरूपो निजः स्वीयो भ्रमो यया॥

बलस्य कृष्टव हलेन भाति या कलिन्दकन्या घनभङ्गभङ्गुरा।
तदार्पितैस्तां करुणस्य कुड्मलैर्हास तस्याः कुटिला कचच्छटा ॥ ३१॥

 बलस्येति ॥ कुटिलातिवक्रा तस्या या कचच्छटा कुन्तलश्रेणिर्बलस्य बलभद्रस्य हलेन आकृष्टा सती घनैर्निविडैभङ्गैस्तरङ्गैर्भङ्गुरा उच्चावचा कलिन्दस्य पर्वतस्य कन्या यमुनेव भाति । सा कचच्छटा तां यमुनां तदा तस्मिन्समयेऽपितैः शिरसि न्यस्तैः करुणाख्यवृक्षस्य कुडालैः कलिकाभिर्जहास । यमुना पराकर्षणकृतेन महीयसा भङ्गेन पराभवेन भग्ना पुष्परहिता च । इयं तु स्वभावकुटिला पुनरपि कुसुमैरञ्चिता चेति हासो युक्त इत्यर्थः । श्यामाऽतिवक्त्रा पुष्पालंकृता च तस्याः कुन्तलश्रेणिनिर्तरां शोभते स्मेति भावः । पूर्वं तु तत्तुल्या भूत्, इदानीं त्वधिका जातेति भावः । जहासेवेति वा। यमुनाकर्षणं हरिवंशादौ ज्ञेयम् ॥

 ललाटप्रसाधनं वर्णयति-

धृतैतया हाटकपट्टिकालिके बभूव केशाम्बुदविद्युदेव सा।
मुखेन्दुसंबन्धवशात्सुधाजुषा स्थिरत्वमूहे नियतं तदायुषः ॥३२॥

 धृतेति ॥ एतयालिके ललाटे या हाटकस्य सुवर्णस्य पट्टिका धृता सा केशाम्बुदानां कुन्तलरूपजलदानां । तेषु वा । विद्युदेव बभूव । क्षणप्रभायास्तस्याः कथं स्थिरत्वमित्यत आह-मुखेन्दोः संबन्धवशाद्देतोः सुधाजुषोऽमृतं सेवमानस्य तदायुषो विद्युवस्थानस्य स्थिरत्वं नियतं निश्चितमहमूहे तर्कयामि । अमृतपानादमरत्वं तस्या जातमित्यर्थः । सुवर्णपट्टिकया ललाटमलंकृतमिति भावः । 'यदायुषः' इति वा पाठः । ऊहे 'ऊह वितर्के'॥

 कुन्तलान्वर्णयति-

ललाटिकासीमनि चूर्णकुन्तला बभुः स्फुटं भीमनरेन्द्रजन्मनः ।
मनःशिलाचित्रकदीपसंभवा भ्रमीभृतः कज्जलधूमवल्लयः॥३३॥