पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३९
पञ्चदशः सर्गः।

विश्रान्तयोर्नेत्रनीलोत्पलवाणयोर्भुजकिणसंबन्धसंभावना युक्ता । अञ्जनरेखे किणतुल्ये, नेत्रे च स्मरवृद्धिकरत्वात्स्मरनीलोत्पलवाणतुल्ये इति भावः ॥

तदक्षितत्कालतुलागसा नखं निखाय कृष्णस्य मृगस्य चक्षुषी ।
विधिर्यदुद्धर्तुमियेष तत्तयोरदूरवर्तिक्षतता स्म शंसति ॥ ३७ ॥

 तदक्षीति ॥ विधिर्ब्रह्मा तदक्ष्णोर्मुगनेत्राधिकयोर्भैमीनेत्रयोस्तत्काले तस्मिन्पाणिग्रहोचिताञ्जनप्रसाधनसमये तुला साम्यकरणं तद्रूपेणाऽगसाऽपराधेन हेतुना नखं निखाय कृष्णस्य मृगस्य कृष्णसारहरिणस्य चक्षुषी उद्धर्तुमुन्मूलयितुं यदियेष, तयोः कृष्णसारनेत्रयोरदूरवर्ति समीपवर्ति यत्क्षतं तस्य भावस्तत्ता सा तन्नखनिखननकर्म शंसति स्म । 'क्षतमाख्यत स्फुटम्' इति पाठे स्फुटं प्रकटम् , उत्प्रेक्षायां वा । अदूरवर्ति क्षतं ययोस्ते अदूरवर्तिक्षते तयोर्भाव इति वा । मृगनेत्रसमीपे नखनिखननाकारं क्षतं भवति ॥

 श्लोकद्वयेनावतंसनीलोत्पले वर्णयति-

विलोचनाभ्यामतिमात्रपीडिते वतंसनीलाम्बुरुहड्वयीं खलु ।
तयोः प्रतिद्वन्द्विधियाधिरोपयां बभूवतुर्भीमसुताश्रुती ततः ॥३८॥

 विलोचनाभ्यामिति ॥ खलु यतो भीमसुतायाः श्रुती कर्णौ विलोचनाभ्यामाकर्णपूर्णत्वादतिमात्रमतितरां पीडिते पराक्रान्ते, ततस्तस्मादात्मपराभवकारिणोस्तयोर्नेत्रयोःप्रतिद्वन्द्विनी तुल्यबले इमे नीलोत्पले इति धिया बुद्ध्येव स्वशिरसि वतंसरूपनीलाम्बुरुहद्वयीमधिरोपयां बभूवतुः आरोपितवन्तौ दध्रतुरित्यर्थः । लुप्तोत्प्रेक्षा । खलु वोत्प्रेक्षायाम् । अन्योऽप्यधिकेन पराभूतस्तत्समानं तद्विरोधिनं संनिधापयति । नीलोत्पलकरणीयं नेत्राभ्यामेव कृतम् , नतु नीलोत्पलाभ्यामधिकं किंचित्कृतम्, नीलोत्पले कर्णभूषणीकते इति च भावः॥

धृतं वतंसोत्पलयुग्ममेतया व्यराजदस्यां पतिते दृशाविव ।
मनोभुवान्ध्यं गमितस्य पश्यतः स्थिते लगित्वा रसिकस्य कस्यचित्॥

 धृतमिति ॥ एतया कर्णयोरुपरि धृतं वतंसोत्पलयुग्मं भैमीमेतत्कर्णौ वा पश्यतः कस्यचिद्रासिकस्य विलासिनो दृशाविव व्यराजत् । किंभूतस्य-मनोभुवा कामेनाविवेकित्वमेवाऽन्ध्यमुद्धृतनेत्रत्वं गमितस्य प्रापितस्य । किंभूते दृशौ-अस्यां भैम्यां पतिते निषण्णे । ततो रसिकत्वादेवापरावृत्य लगित्वा संबध्य स्थिते स्थिरतरे इत्युत्प्रेक्षा । कश्चिद्विलासी भैम्याः कर्णौ प्रथममेव दृष्टवान् । ततस्तस्य नेत्रे कर्णयोरेव लग्ने स्थिते, नोत्पलद्वयमित्यर्थः । नेत्रगमनादेवास्यान्ध्यम् । अन्यदपि पतितं वस्तु कुत्रापि लगित्वा तिष्ठति ॥

 रत्नावतंसं वर्णयति-

विदर्भपुत्रीश्रवणावतंसिकामणी[१] महःकिंशुककार्मुकोदरे।
उदीतनेत्रोत्पलबाणसंभृतिर्नलं परं लक्ष्यमवैक्षत स्मरः ॥ ४० ॥


१ 'महश्चापपलाशकिंशुके' इति महश्चापपलाशकिंशकःइतिवा पाठः सुखावबोधायाम्।

  1. 'महश्चापपलाशकिंशुके' इति 'महश्चापपलाशकिंशकः' इति वा पाठः सुखावबोधायाम् ।