पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४२
नैषधीयचरिते

 श्लोकद्वयेन पदप्रसाधनमाह-

पदद्वयेस्या नवयावरञ्जना जनैस्तदानीमुदनीयतार्पिता।
चिराय पद्मौ परिरभ्य जाग्रती निशीव विश्लिष्य नवा रविद्युतिः॥

 पदेति ॥ तदानीं तस्मिन् प्रसाधनसमये अस्याः पदवयेऽर्पिता रचिता नवा आर्द्रा यावरञ्जना अलक्तकरञ्जना जनैर्नवोदयसमये जाताऽतिरक्ता रविद्युतिरिवोदनीयतातर्क्यत । किंभूता रविद्युतिः-निशि रात्री सूर्यस्यास्तमयवशात्पद्माभ्यां सह विश्लिष्य पद्मौ चिराय परिरभ्य जाग्रती तिष्ठन्ती । रविद्युतिर्यथा पद्मेषु श्रियमधिकां करोति । तथा यावकरञ्जना तत्पदयोरिति भैमीचरणौ पद्मतुल्याविति भावः । चिराय विश्लिष्येति वा । चिरवियुक्तावन्योन्यं प्राप्य गाढमालिङ्ग्य तिष्ठत इत्युक्तिः॥

कृतापराधः सुतनोरनन्तरं विचिन्य कान्तेन समं समागमम् ।
स्फुट सिषेवे कुसुमेषुपावकः स रागचिहूश्चरणौ न यावकः॥४७॥

 कृतेति ॥ पूर्वं विरहावस्थायां बहुसंतापकारित्वात्सुतनोर्भैम्याः कृतोऽपराधो येन स कुसुमेषुः काम एव पाक्कोऽग्निरनन्तरमधुना कान्तेन नलेन समं सह भैम्या समागमं विचिन्त्य स्फुटं निश्चितं चरणौ सिषेवे । अपराधमार्जनायेत्यर्थः । कामस्याग्नित्वे हेतुमाह-यतः सोऽग्नी रागचिह्नो रागो लोहितिमैव चिह्नं यस्य । रक्तिम्ना वह्निरयमिति ज्ञायते । अथवाऽनुराग एव चिह्नं यस्य । अनुराग एव हि काममनुमापयति । तस्माकामाग्निरेवायं, नत्वयं यावकोऽलक्तकः । स यावको नेति वा । अन्योपि प्रोषितभर्तृकायाः कस्याश्चित्कृतापराधः संस्तत्प्रियागमनं विचिन्त्यापराधमार्जनाय तत्पादयोः पतति । सालक्तकतत्पदर्शनादेव नलस्य कामोद्रेको भवितेति भावः ॥

 सहजशोभामाहात्म्यं वर्णयति-

स्वयं तदङ्गेषु गतेषु चारुतां परस्सरेणैव विभूषितेषु च ।
किमूचिरेऽलंकरणानि तानि तद्वथैव तेषां करणं बभूव यत्॥४८॥

 स्वयमिति ॥ स्वयं भूषणं विनैव परस्परानपेक्षं च तस्या भैम्या अङ्गेषु मुखाद्य वयवेषु प्रत्येकं स्वीयस्वीयसौष्ठववशात्तरुणिमारोहवशाच्च चारुतां गतेषु प्राप्तेषु सत्सु परस्परेणैवान्योन्येनैव च विशेषेण भूषितेषु प्रत्येकं सौन्दर्यं सत्यप्यन्योन्यसाहचर्यवशात्करानुगुणौ भुजौ भुजानुगुणौ करावित्येकस्याङ्गस्यापरेण तस्य च तेनैव सर्वाङ्गयोग्याङ्गसामग्रीसंघटनात्सुन्दरतरेषु सत्सु तानि मनःशिलादितिलकादीन्यलंकरणानि किमूचिरे, अपितु-स्वकरणप्रयोजनं न किंचिदूचुः । यद्यस्मात्तेषामलंकरणानां तत्पूर्वोक्तप्रकारं करणं निर्माणं वृथैव बभूव । दुःखवशान्न किंचिदूचुः, किमप्यधिकं न चक्रुरित्यर्थः । आश्रितत्वादनिराकार्यत्वेन स्थितान्येवेति भावः। यत्तेषां करणं तद्धृथैवाभूत् । अत एव करणमलमित्यन्वयेन नाम सान्वयं जातमिति भावः । अलं वृथा करणं येषामिति बहुव्रीहिणापि सान्वयं जातमित्यर्थः । पूर्वमलंशब्दस्य भूषणार्थत्वम् , पश्चादप्रयोजकत्वा-