पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४४
नैषधीयचरिते

मुखप्रतिबिम्बैः सह बिम्बभूतस्य मुखस्यानेकत्वान्मुखतुल्यदर्पणद्वयेन सह बिम्बभूतस्य मुखस्य स्वसदृर्शैरादर्शैः स्वप्रतिबिम्बैश्च सह वाऽनेकत्वात्पञ्चषैर्द्वैयोविजयस्य सुकरत्वादित्यर्थः । पूर्वं शोभया जितोपि संख्याधिक्येन मुखं जेतुमारब्धवान् , तथापि मुखस्याधिकतरसंख्यत्वान्न शशाकेति भावः । 'बहूभाविष्णुना' इति च्चिः॥

किमालियुग्मार्पितदर्पणद्वये तदास्यमेकं बहु चान्यदम्बुजम् ।
हिमेषु निर्वाप्य निशासमाधिभिस्तदीयसालोक्यमितं व्यलोक्यत

 किमिति ॥ आलियुग्मेनार्पिते दर्शिते दर्पणद्वये बहुषु बिम्बप्रतिबिम्बेषु मध्ये एकमेकसंख्यायोग्यम् । अथ च मुख्यम्।तदास्यं भैमीमुखम् , अन्यच्च हिमेषु शिशिरर्तुषु । अथ च काम्येषु केदारादिहिमेषु निर्वाप्य निर्वाणं (पं) विनाशम् । अथ च मोक्षम् । कृत्वा । प्राप्येति यावत् । निशासमाधिभी रात्रिसंबन्धिभिः संकोचैः। अथच परमात्मदर्शनोपायैः। कृत्वा तदीयं भैमीमुखसंबन्धि सालोक्यं सादृश्यम् । अथ च सालोक्यलक्षणां मुक्तिम् । इतं प्राप्तं बहु अनेकमम्बुजं किं लोकैर्व्यलोक्यत । किमुत्प्रेक्षायाम् । भैमीमुखप्रतिबिम्बान्निहीनत्वात्पद्मैः केदारादिहिमचूर्णनादितपस्तप्त्त्वा तन्मुखप्रतिबिम्बस्य समीपे स्थितानि किमित्यर्थः । पद्मेभ्यो मुखमधिकमिति भावः । अम्बुजमिति जात्यैकवचनम् । निर्वपणं निर्वापस्तत्करोतीति ण्यन्ताल्लयपि निर्वाप्येति । हिमेष्वात्मानं विना- श्येत्यर्थः । सालोक्यं 'समानस्य-' इति योगविभागात्सः॥

पलाशदामेतिमिलच्छिलीमुखैर्वृता विभूषामणिरश्मिकार्मुकैः ।
अलक्षि लक्षैर्धनुषामसौ तदा रतीशसर्वस्वतयाऽभिरक्षिता ॥५३॥

 पलाशेति ॥ असौ भैमी पलाशानां किंशुकानां दाम माला इयमिति भ्रान्त्या मिलन्त आगच्छन्तः शिलीमुखा भ्रमरा यत्रैवंभूतैः । अथ च किंशुकानां धनुराकारत्वान्मिलद्वाणैः । विभूषामणीनां विशिष्टालंकारसंबन्धिमाणिक्यादिरत्नानां रश्मिरूपैः कार्मुकैरिन्द्रधनुभिर्वृता वेष्टिता सती तदा भूषणानन्तरकाले रतीशस्य कामस्य सर्वस्वतया परमधनत्वेन हेतुना धनुषां लक्षैर्लक्षसंख्यैर्धनुर्भिरभि सामस्त्येन रक्षितेव लोकैरलक्षि तर्कि- ता। कुन्ताः प्रविशन्तीति वत् । धनुषां धनुर्धराणामित्यर्थः । कान्तिसाम्यान्मित्रतया नलसर्वस्वं भैमीं कामो रक्षतीत्यर्थः ।

विशेषतीर्थैरिव जह्नुनन्दि[१]नी गुणैरिवाजानिकरागभूमिता।
जगाम भाग्यैरिव नीतिरुज्ज्वलैर्विभूषणैस्तत्सुषमा महार्घताम् ॥ ५४ ॥

 विशेषेति ॥ तस्या भैम्याः सुषमा स्वाभाविकी परमा शोभा विभूषणैर्विशिष्टैर्भूषणैः कृत्वा महार्घतामतिश्रैष्ठ्यं जगाम । का कैरिव-जह्नुनन्दिनी स्वत एव श्रेष्ठाऽपि गङ्गा विशेषतीर्थैः प्रयागादिभिरिव।तथा-आजानिकरागभूमिता (जननंजनः, न जनोऽजनः, अजनेन निवृत्तः स्वभावेन संभूतः आजानिकः तेन निवृत्तम्' इति ठक् । जनेर्जन्मन


  1. नन्दना नन्द्यादित्वालाप्रत्यये टाप्-इति जीवातुः।