पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४५
पञ्चदशः सर्गः।

आ आजनि, आजनि भवोऽध्यात्मादित्वाट्ठाञ् । इकादेशः । अनुशतिकादित्वादुभयपदवृद्धिः। ) आजानिकः सहजो रागः, तस्य भूमिः स्थानं पुत्रादिः, तस्य भावस्तत्ता सहजा स्नेहपात्रता गुणैः शीललावण्यादिभिरिव । तथा-नीतिः उज्ज्वलैर्नीतिसाधितफलप्रतिबन्धनाशनात्प्रकाशैर्भाग्यैः पूर्वकृतशुभकर्मभिरिव । भागीरथी सर्वत्र श्रेष्ठैव, परं प्रयागादौ माहात्म्यातिशयः। यत्रानुरागस्तत्र श्रेष्ठ्यम् , परं शीलादिनाऽनुरागस्य निरतिशयत्वम् । तथा-नीतिमार्गानुसरणं श्रेष्ठमेव, परं तूज्वलैर्भाग्यैरनुगृहीतं श्रेष्ठतरं भवतीत्यर्थः। मण्डनैस्तस्या निरतिशया शोभाऽभूदिति भावः। उज्ज्वलैरित्युपमानोपमेयैः संबन्धनीयम् । अशुभकर्मणोपि भाग्यस्याभिधायकत्वात्तन्निवृत्त्यर्थं भाग्यविशेषणमेव वा । उपमानत्रयेण क्रमेण पावित्र्यं, गुणवत्त्वं, भाग्यवत्त्वं च, सूचितम् । विशिष्यन्ते विशेषाः पचाद्यच् (ऽ)॥

नलात्स्ववैश्वस्त्यमनाप्नुमानता नृपस्त्रियो भीममहोत्सवागताः ।
तदङ्घ्रिलाक्षामदधन्त मङ्गलं शिरःसु सिन्दूरमिव प्रियायुषे ॥५५॥

 नलादिति ॥ नलात्सकाशात्स्वस्याऽत्मनो वैश्वस्त्यं वैधव्यमनाप्तुमप्राप्तुमानता भैमीचरणप्रणामप्रवणा भीमस्य कन्यास्वयंवररूपे महोत्सवे आकारिताः सत्य आगता नृपप्रिया अन्यराजमहिष्यः प्रियायुषे स्वप्राणेशचिरंजीवनाय मङ्गलरूपं सिन्दूरमिव स्व- शिरःसु तस्या भैम्या अङ्घ्रयोश्चरणयोर्लाक्षामलक्तकमादधन्त अधारयन् । पत्युरायुर्वद्धये अन्याः स्त्रियस्ता एव वा यथा शिरःसु सिन्दूरं धारयन्ति, तथा प्रणामप्रसन्नया भैम्या एतदीयाः प्राणेशा रक्षणीया इति प्रार्थितो नलः स्वप्राणेशाव्रक्षिष्यतीति बुद्ध्या स्वभर्तृचिरजीवनाय भैमीचरणयोः प्रणामं कृतवत्य इति भावः। प्रणामादेव वार्द्रा लाक्षा लग्ना । 'विश्वस्ताविधवे समे' इत्यमरः । ब्राह्मणादित्वाद्वैश्वस्त्यम् । अदधन्त 'दध धारणे' लङि । ‘हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्जलं तथा । कूर्पासकं च ताम्बूलं माङ्गल्याभरणं शुभम् । केशसंस्कारकबरीकरकर्णविभूषणम् । भर्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता' इति स्कन्दवचनम् ॥

अमोघभावेन सनाभितां गताः प्रसन्नगीर्वाणवराक्षरस्रजाम् ।
ततः प्रणम्राधिजगाम सा ह्रिया गुरुर्गुरुब्रह्मपतिव्रताशिषः॥५६॥

 अमोघेति ॥ ततो मण्डनानन्तरं प्रणम्रा कृतगुर्वादिचरणप्रणामा सती ह्रिया गुरुः । अधिकलज्जेत्यर्थः । सा भैमी गुर्वोः पूज्यतमयोः पित्रोः, ब्रह्मणां ब्राह्मणानां, वाङ्मनः- कायकर्मभिः पतिमव्यभिचरन्तीनां पतिव्रतानां वृद्धशोभनसुवासिनीनां च अविधवा सुभगा अ(न)ष्टपुत्रा भवेति आशिषोऽधिजगामालभत।किंभूता आशिषः-अमोघभावेन सफलत्वेन प्रसन्नानां गीर्वाणानां देवानां पूर्वोक्ता वरास्तत्संबन्धिन्योऽक्षरस्रजो वर्णमालास्तासां सनाभितां बन्धुत्वं गताः प्राप्ताः सत्यत्वेन तत्तुल्याः॥

तथैव तत्कालमथानुजीविभिः प्रसाधनासञ्जनशिल्पपारगैः।
निजस्य पाणिग्रहणक्षणोचिता कृता नलस्यापि विभोर्विभूषणा॥५७॥