पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
पञ्चदशः सर्गः।


 मूर्धप्रसाधनमाह-

अनर्घ्यरत्नौघमयेन मण्डितो रराज राजा मुकुटेन मूर्धनि ।
वनीपकानां स हि कल्पभूरुहस्ततो विमुञ्चन्निव मञ्जुमञ्जरीम ॥ ६० ॥

 अनर्घ्येति ॥ अनर्घ्यरत्नौघमयेनामूल्यदिव्यमाणिक्यादिरत्नघटितेन मुकुटेन मूर्ध्नि मण्डितो राजा स नलो हि यस्माद्वनीपकानां याचकानामतिधनदानात्कल्पभूरुहः कल्पवृक्षः, ततो हेतोर्मञ्जुमञ्जरीं कल्पवृक्षत्वोचितां रम्यां रत्नाङ्कुरपरम्परां विमुञ्चन्नुद्गिरन्निव रराज । वृक्षो हि बालपल्लवपुष्पफलयुक्तां मञ्जरीमुद्रिरति । कल्पवृक्षस्य च मञ्जरी रत्नफलत्वाद्रत्नमयी । मञ्जरीस्थाने मुकुटः, तत्किरणा वा । मञ्जर्याकारा मुकुटमणिकिरणा ऊर्ध्वं निर्गच्छन्तीत्यर्थः । अर्घमर्हतीत्यर्थे दण्डादित्वाद्यत् । 'मञ्जरीः' इति च पाठः॥

 भालप्रसाधनमाह-

नलस्य भाले मणिवीरपट्टिकानिभेन लग्नः परिधिर्विधोर्बभौ।
तदा शशाङ्काधिकरूपतां गते तदानने मातुमशक्नुवन्निव ॥६१ ॥

 नलस्येति ॥ रत्नखचिताया वीरसंबन्धिन्या वीरपुरुषधार्याया वीरपट्टिकानाम्ना चाख्यातायाः सुवर्णपट्टिकायाः श्रवणयुगपश्चाद्भागमात्रव्यापिन्या निभेन व्याजेन नलस्य भाले ललाटे लग्नः सन् विधोश्चन्द्रस्य परिधिः परिवेषो बभौ। मुखचन्द्रेऽपि चेत्परिवेषः, संपूर्णमण्डलः किमिति न दृश्यत इत्यत आह-किं कुर्वन्निव । तदा प्रियासंगमकाले भूषणकाले च हर्षवशाभूषणवशाच्च शशाङ्काधिरूपतां चन्द्रापेक्षयाधिकसौन्दर्यम् । अथच-अधिकपरिमाणत्वं गते प्राप्ते तदानने मातुं तुल्यप्रमाणतां च प्राप्तुमशक्रुवन्निव । अल्पपरिमाणस्य यदलंकरणं तदधिकपरिमाणस्यैकदेश एव तिष्ठति नतु सर्वं मण्डयितुं शक्नोति । तस्मान्मुखैकदेशो भाल एव परिधिः स्थित इति युक्तमिति भावः । मणिकिरणानां मण्डलाकारत्वेन पट्टिकायाः परिवेषाकारत्वं युक्तम् । 'अशक्तिमुद्वहन्' इति च पाठः॥

 श्लोकत्रयेण तिलकं वर्णयति-

बभूव भैम्या: खलु मानसौकसं जिघांसतोधैर्यभरं मनोभुवः ।
उपभ्रु तद्वर्तुलचित्ररूपिणी धनुःसमीपे गुलिकेव संभृता ॥ ६२ ॥

 बभूवेति ॥ मनोभुवो धनुःसमीपे संभूता सज्जीकृता उपभ्रु भ्रुवोः समीपे तस्य नलस्य वर्तुलं चित्रं तिलकस्तद्रूपिणी गुलिकेव मृन्मयो गोलक इव बभूव । किंभूतस्य- भैम्या मानसौकसं । मनसि धैर्यभरं धैर्यबाहुल्यं अथच धैर्यभरमेव । मानससरोनिवासिनं हंसं । पक्षित्वान्न विद्यते धैर्यभरो यस्यैवंविधं वा। हंसं जिघांसतो हन्तुमिच्छतः। भुवो कामधनुष्ट्वम् , तिलकस्य च गुलिकात्वम् । भ्रूसमीपस्थितवर्तुलतिलकदर्शनमा-