पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५०
नैषधीयचरिते

वताख्येन स बलारातिराजिषु बलवानभूत् । यश्च वृष्ट्यर्थं जलाभिलाषिणो मेघान्पूरयति । रामनामाद्यङ्किता मुद्रोक्ता । 'यदुद्गता', 'पपार यस्तान्' इति वा पाठः। 'सलिलं कमलं जलम्' इत्यमरः । 'कमला श्रीवरश्रियोः' इति विश्वः । वलनं वलः। घर्ञ्थे कविधानात्कः । अपूपुरदिति पूरयतेर्लङि 'णौ चङि-' इति ह्रस्वे 'दीर्घो लघोः' इत्यभ्यासस्य दीर्घः । पपार, पॄधातोः पूरणार्थाल्लिट् । इत्त्वं (उत्त्वं) बाधित्वा परत्वाद्वृद्धिः॥

कृतार्थयन्नर्थिजनाननारतं बभूव तस्यामरभूरुहः करः।
तदीयमूले निहितं द्वितीयवद्भुवं दधे कङ्कणमालवालताम् ॥६८॥

कृतेति ॥ तस्य करोऽमरभूरुहः कल्पवृक्षो यतो बभूव । किं कुर्वन्-अर्थिजनान्याचकलोकान्बहुधनदानादनारतं सदा कृतार्थयन्प्राप्तप्रयोजनान्कुर्वन् । तस्मान्मणिबन्धरूपे तदीयकरमूले निहितं स्थापितं द्वितीयवद्वितीयेन वैवाहिकेन सूत्रमयेन माङ्गलिकेन कङ्कणेन युक्तं सौवर्णं कङ्कणमालवालतां दधे । तदीयकरकल्पतरोः कङ्कणमालवालस्थाने जातमित्यर्थः । वृक्षमूले आलवालद्वयं भवति । मिलितमुद्रिकाद्वयवद्बयोर्मिलितयोर्घटनाद्वितीयवदिति वा । ध्रुवमुत्प्रेक्षायाम् । 'विनिवेशितं तदा' इति पाठः साधुः ॥

रराज दोर्मण्डनमण्डलीजुषोः स वज्रमाणिक्यसितारुणत्विषोः ।
मिषेण वर्षन्दशदिङ्मुखोन्मुखौ यशःप्रतापाववनीजयार्जितौ॥६९॥

रराजेति ॥ स नलो रराज । किं कुर्वन्निव-दोर्मण्डनं बाहुभूषणं तस्य मण्डली श्रेणी तां जुषेते इति जुषौ तयोरङ्गदादिवर्तुलबाहुभूषणाश्रययोर्वज्रमाणिक्यानां क्रमेण सितारुणत्विषोः श्वेतरक्तदीप्त्योर्मिषेण ऊर्ध्वाधोदिक्सहितप्राच्यादिदशदिङ्मुखानामुन्मुस्त्रौ तत्र प्रसरन्ताववनीजयेनार्जितौ क्रमेण यशःप्रतापौ वर्षन्प्रसारयन्निव । हीरकमाणिक्यानां मण्डनाश्रितत्वात्तद्दीत्योरपि मण्डनाश्रितत्वं युक्तम् । यशःप्रतापौ सितरक्तशोभाविति कविसंकेतः । [१]इवाध्याहारः॥

घने समस्तापधनावलम्बिनां विभूषणानां मणिमण्डले नलः ।
स्वरूपरेखामवलोक्य निष्फलीचकार सवाचणदपणार्पणाम्॥७०॥

 घन इति ॥ नलः समस्ता येऽपघना हस्तमस्तकाद्यङ्गानि तानवलम्बन्त एवंशीलानि तत्र स्थितानि तेषां विभूषणानां घने सान्द्रे मणिमण्डले रत्नसङ्घे स्वरूपस्य स्वाकारस्य रेखां परमां शोभां स्वलावण्यपरमां मर्यादां वावलोक्य सेवया वित्ताः प्रसिद्धाः सेवाचतुरा नापितादयस्तेषां दर्पणार्पणां प्रतिबिम्बदर्शनार्थं मुकुरार्पणां निष्फलीचकार । आदर्शकृत्यस्य रत्नैरेव कृतत्वादिति भावः। मङ्गलमादर्श इति बुद्ध्या तैर्दर्पण आनीतः। तेन च विलोकित इति तेषां सेवाचातुर्यम् । सेवाचणेति 'तेन वित्तः-' इति च [२] णम् ॥


  1. अत्र 'त्विघोमिषेण' इति छलादिपदैरसत्यत्वप्रतिरूपोऽपह्नवालंकारभेदः । तस्य यथासंख्यद्वयभेदेन संकरः । 'वर्षन्निव' इत्युत्प्रेक्षावगम्यते । साच सापह्रवेति संकरः, इति जीवातुः
  2. 'अत्र समाध्यलंकारः' इति जीवातुः।