पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
नैषधीयचरिते

 अलीति ॥ स नलः चाम्पेयं कुड्मलमधीरया धिया बुद्ध्या निपीय सादरमालोक्य आतङ्कितवान् चकितः सन् वियोगिनां विपदे विनाशायोदीतमुदयं प्राप्तं तमेव धूमकेतुमुत्पातविशेषमशङ्कत तर्कितवान् । धूमकेतुर्विनाशसूचकः । किंभूतं कुड्मलम्-अलिस्रजा भ्रमरपङ्क्तयोच्चशेखरमुच्चाग्रम् । 'चाम्पेयश्चम्पको हेमदुग्धकः' इत्यमरः । ततो विकारप्रत्ययस्य 'पुष्प-' इति लुक् । कुङ्मलमिति 'कलस्तृपश्च' इत्यतः कलप्रत्ययमनुवर्त्य 'कुटिकशिकौतिभ्यः प्रत्ययस्य मुट्' इति कले तस्य मुडागमे 'कुट कौटिल्ये' इत्यस्य धातोः 'कुट्मल' टमध्योऽयम् । 'कुड बाल्ये' इत्यस्य 'कुड्मलः' डमध्योऽपि । तथाच मेदिनीकोषः-'कुड्मलो मुकुले पुंसि न द्वयोर्नरकान्तरे' इति ॥

गलत्परागं भ्रमिभङ्गिभिः पतत्प्रसक्तभृङ्गावलि नागकेसरम् ।
स मारनाराचनिघर्षणस्खलज्ज्वलत्कणं शाणमिव व्यलोकयत॥९२॥

 गलदिति ॥ स नलो नागकेसरं नागकेसरकुसुमं शाणमिव निकषमिव कषणपाषाणमिव व्यलोकयत् । कीदृशम्-गलत्परागं भ्रश्यत्परागम् । तथा भ्रमिभङ्गिभिर्भ्रमणरचनाविशेषैः पतन्ती वृक्षादागच्छन्ती प्रसक्ता लग्ना भृङ्गावलिर्भ्रमरपङ्क्तिर्यस्मिन् । किंभूतं शाणम्-मारस्य कामस्य नाराचा बाणशल्यानि तेषां निघर्षणात्स्खलन्तो भ्रश्यन्तो ज्वलन्तो देदीप्यमानाः कणाः स्फुलिङ्गा यस्मात् । परागो ज्वलत्पतत्कणस्थाने । भृङ्गावलिर्नाराचस्थाने । शाणस्यापि भ्रमणं भवति । लोहसंघर्षाज्ज्वलन्तः कणाश्च तस्मादुच्छलन्ति । 'शाणस्तु निकषः कषः' इत्यमरः ॥

तदङ्गमुद्दिश्य सुगन्धि पातुकाः शिलीमुखालीः कुसुमागुणस्पृशः ।
स्वचापदुर्निर्गतमार्गणनभ्रमात्स्मरः स्वनन्तीरवलोक्य लज्जितः॥९३॥

 तदिति ॥ स्मरः कामः शिलीमुखालीर्भ्रमरपतीरवलोक्य स्वचापात्स्वधनुषः दुर्निर्गता दुःखेन निर्गता मार्गणा बाणास्तेषां भ्रमाद्भ्रान्तेः लज्जितो लज्जां प्राप्त इव (लुप्तोत्प्रेक्षा)। किंभूताः शिलीमुखाली:-कुसुमादपि सुगन्धि तदङ्गं नलाङ्गमुद्दिश्य पातुकाः पतनशीला आगच्छन्तीः। यद्वा-कुसुमात्सकाशात्पातुकाः। यद्वा-कुसुमगुणबद्धात्कुसुमलक्षणाद्धनुषः पातुकाः। यतो गुणस्पृशो गुणाभिलाषिणीः, मौर्वीस्पृशश्च । स्वनन्तीः शब्दायमानाः । शिलीमुखपदं भ्रान्तेः कारणम् । 'अलिबाणौ शिलीमुखौ' इत्यमरः । दुर्निर्गतो हि बाणो ध्वनति लक्ष्यं च न स्पृशति तेन धानुष्को लज्जते । सुगन्धीति सुपूर्वस्य 'गन्धस्येत्-' इतीत्त्वम् । पातुकाः तच्छीले 'लषपत-' इत्युकञ् ॥

मरुल्ललत्पल्लवकण्टकैः क्षतं समुच्छलच्चन्दनसारसौरभम् ।
स वारनारीकुचसंचितोपमं ददर्श मालूरफलं पचेलिमम् ॥ ९४ ॥


 १ 'अत्रोत्प्रेक्षालंकारः' इति जीवातुसाहित्यविद्याधर्यौ। २ 'अत्रोत्प्रेक्षा जातिश्चालंकारः' इति साहित्यविद्याधरी। ३ 'अत्र स्वनच्छिलीमुखेषु दुर्निर्गतमार्गणभ्रमाद् भ्रान्तिरलंकारः स च शिलीमुखेति श्लेषानुप्राणिता चेयं स्मरस्य लज्जितत्वोत्प्रेक्षा इत्यनयोः संकरः' इति जीवातुः ।