पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५१
पञ्चदशः सर्गः।

व्यलोकि लोकेन न केवलं चलन्मुदा तदीयाभरणार्पणाद्युति ।
अदर्शि विस्तारितरत्नलोचनैः परस्परेणे[१] व विभूषणैरपि ॥ ७१ ॥

 व्यलोकीति ॥ चलन्ती व्याघुट्योत्पाद्यमाना मुद्यस्य तेन निरन्तरहर्षेण लोकेन तदीयानां नलीयानामाभरणानामर्पणाद्युतिः संस्थानविशेषे स्थापनजनिता शोभा केवलं न व्यलोकि किंतु विस्फारितानि प्रसारितकिरणानि रत्नान्येव लोचनानि येषामेवंविधैः । विस्फारितै रत्नलोचनैः कृत्वा वा । अचेतनैर्विभूषणैरपि परस्परेणान्योन्यस्य द्युतिरदर्शीव विलोकितेव। अन्योन्यशोभाविलोकनार्थमचेतनैरपि तैनॆत्राणि प्रसारितानीत्यर्थः। आभरणशोभा सर्वैर्विलोकिता। मण्डनमात्रं च खचितरत्नमि[२]त्यर्थः॥

ततोऽनु वार्ष्णेयनियन्तृकं रथं युधि क्षितारिक्षितिभृज्जयद्रथः ।
नृपः पृथासूनुरिवाधिरूढवान्स जन्ययात्रामुदितः किरीटवान्

 तत इति ॥ ततो भूषणधारणादनु पश्चात्स नलो नृपो वार्ष्णेयनामा नियन्ता सारथिर्यस्य । अथच-कृष्णः सारथिर्यस्य । तं रथं किरीटवान्सहजकिरीटयोगात्किरीटिनामा पृथासूनुरर्जुन इवारूढवान् । किंभूतो नलोऽर्जुनश्च-युधि क्षि[३]ता भङ्गं प्रापिता अरिक्षितिभृतां वैरिनृपाणां जयन्तो जयदातारोऽपि रथा येन । क्षितवैरिनृपश्चासौ जयद्रथो यस्येति वा । क्षिता वैरिनृपाणां जयन्तो रथा लक्षणया अर्शआदित्वाद्वा महारथातिरथार्धरथप्रमुखा योधा येनेति वा । अर्जुनपक्षे-युद्धे हतोऽभिमन्युवधादारिः शत्रुभूतः क्षितिभृद्राजा जयद्रथो येन । क्षितोऽरीणां कौरवाणां संबन्धी राजा जयद्रथो येनेति वा । तथा-जनीं वधूमर्हति जन्यो वरस्तत्संबन्धिन्यां यात्रायां मुदितो हृष्टः । जन्या वरपक्षीयास्तैः सह यात्रया वा हृष्टः । अथच-युद्धसंबन्धिन्यां विजययात्रायां हृष्टः। तथा-मुकुटेन मण्डितः। वरयात्रार्थं निर्गत इत्यर्थः । वार्ष्णेयः। वृष्णेरपत्यम्, 'इतश्चानिञः' इति ढक् । नियन्तृकम्, 'नद्यृतश्च' इति कप् ॥

 इदानीं वरसंदर्शनार्थ पुरनारीसंभ्रममाह----

विदर्भनाम्नस्त्रिदिवस्य वीक्षितुं रसोदयादप्सरसस्तमुज्ज्वलम् ।
गृहाद्गृहादेत्य धृतप्रसाधना व्यराजयन्नाजपथानथाधिकम् ॥७३॥

 विदर्भेति ॥ अथ रथारोहणानन्तरं विदर्भेति नाम्नस्त्रिदिवस्य कुण्डिनरूपस्य स्वगैस्याप्सरसः सुन्दरनार्य एव स्वर्वेश्या उज्वलं प्रकाशमानं मूर्त शृङ्गाररूपं वा तं नलं रसोदयाद्दर्शना(द)नुरागाभिवृद्धिहेतोर्वीक्षितुं विशेषेण द्रष्टुं धृतप्रसाधना धृतालंकाराः सत्यो गृहाद्गेहादेत्यागत्य निसर्गरम्यान् राजपथानाधकं नितरां व्यराजयन् । त-


  1. 'परस्परेणैव' इति पाठे लुप्तोत्प्रेक्षा इति सुखावबोधा
  2. अर्थापत्तिरलंकारः । सा रत्नलोचन' इति रूपकोत्थेति संकरः । तेन ‘विभूषणानि रत्नलोचनैरन्योन्यं पश्यन्तीवादृश्यन्त' इत्युत्प्रेक्षा व्यज्यते इति जीवातुः।
  3. टीकापुस्तकेषु क्षताः' इत्येव पाठः । तथापि प्राचीनमूलपुस्तकस्थ 'क्षिता' इति पाठानुरोधादित्य कृतम्।