पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५३
पञ्चदशः सर्गः।

 करेति ॥ एकिका कापि विलासिनी पुरनारी करस्थं ताम्बूलं जिघत्सुर्भक्षयितुमिच्छुः सती करस्थं लीलाकमलं मुखे निचिक्षेप ! यतो नलविलोकने विषये एकाग्र् तत्परे विलोचनोत्पले यस्याः सा । ताम्बूलभ्रान्त्या कमलं मुखे निक्षिप्तमित्यर्थः । कयेव--मुखलक्षणे राजनि विद्यमाने कमलस्य द्वितीया राजता तया जाता या रुट् क्रोधस्तयेव । उत्तमेन मन्मुखेन सहैतत्स्पर्धत इति क्रोधादिव सुखे कमलं निक्षिप्तमित्यर्थः । नलसौन्दर्यातिशयदर्शनेन विमनस्कतोक्ता । जिघत्सुः, 'लुङ्सनोर्घस्लृ' इत्यदेर्घस्लिादेशे, 'घस्लृ अदने' इत्येतस्माद्वा सन्नन्तादुः । 'न लोका-' इति षष्ठीनिषेधाताम्बूलं जिघत्सुरिति (द्वितीयायाम्) 'द्वितीया' इति योगविभागात्समासः ॥

कयापि वीक्षाविमनस्कलोचने समाज एवोपपतेः समीयुषः ।
घनं सविघ्नं परिरम्भसाहसैस्तदा तदालोकनमन्वभूयत ॥ ७८ ॥

 कयेति ॥ कयापि स्वैरिण्या वीक्षया नलदर्शनेन विमनस्के त्यक्तविषयान्तरे लोचने यस्यास्मिन्समाजे जनसङ्घ एव समीयुषः समागतस्योपपतेारस्य परिरम्भ आलिङ्गनविषये साहसैनिर्विचारनिर्भयप्रवर्तनैः कृत्वा तदा नलविलोकनसमये तदालोकनं नलदर्शनं धनं नितरां सविघ्नं यथा तथान्वभूयतानुभूतम् । जारकर्तृकैर्जारकर्मकैर्वा आ- लिङ्गनैर्व्यवधानात्तया नलः सम्यङ्नादर्शीत्यर्थः। तदा तदा कदाचित्कदाचित् (प्रकतत्वान्नलस्य) आलोकनं कृतम्, न तु निरन्तरमिति वा । देवयात्रावरयात्रादिको जारादीनां कामशास्त्रे समय उक्तः॥

दिदृक्षुरन्या विनिमेषवीक्षणां नृणामयोग्यां दधती तनुश्रियम्।
पदानमात्रेण यदस्पृशन्महीं न तावता केवलमप्सरोभूत् ॥ ७९ ॥

 दिदृक्षुरिति ॥ नलं दिदृक्षुः, अत एव दर्शनानुरागवशेन विगतपक्षमसंकोचे वीक्षणे विशिष्टे नेत्रे यस्याः सा । तथा-नृणां भूलोकवासिनामयोग्यां दिव्यां तनुश्रियं दधती अन्या काचिन्नारी इत्थंप्राप्तदेवाङ्गनासाम्यापि दर्शनौत्सुक्यात्पदानमात्रेणैव यद्यस्मान्महीमस्पृशत्तावता केवलं तावन्मात्रेणैव नाप्सरोऽभवत् । अप्सरसोप्यनिमेषनेत्रा मनुष्यानर्हा देवैकभोग्यां कायकान्तिं बिभ्राणाः केवलं पदैकदेशेनापि भूमिं न स्पृशन्ति । इयं तु निर्निमेषदर्शनोत्सुकतयाङ्गुष्ठादिमात्रेण स्पृशती तेनैव धर्मेण तत्तुल्या नाभूत् । अन्यत्सर्व सादृश्यमेवेत्यर्थः । अप्सरोभवदिति च्विः। अप्सरःशब्दस्य बहुत्वेपि अन्या इत्यपेक्षयाभवदित्येकवचनमपि युक्तम् । 'आपः सुमनसो वर्षा अप्सरः. सिकतासमाः। एताः स्त्रियां बहुत्वे स्युरेकत्वेऽप्युत्तरं त्रयम्॥' इति वचनादेकवचनान्ताप्सरःशब्दाच्च्विः । बहुजनपृष्ठवर्तिनो भित्त्यादिव्यवहिता वा पादाङ्गुष्ठमात्रेण भुवं स्पृशन्तः प्रोन्नमिताङ्गाः पश्यन्तीति दिदृक्षुणां [१]स्वभावः॥


  1. 'अत्र 'महीमस्पृशत्' इत्युपमेयस्योपमानादीषदल्पत्वकथनेन भेदप्रधानसादृश्योक्तिव्यतिरेकालंकारभेदः' इति जीवातुः।