पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५४
नैषधीयचरिते

विभूषणस्रंसनशंसनार्पितैः करमहारैरपि धूननैरपि ।
अमान्तमन्तः प्रसभं पुरापरा सखीषु समापयतीव संमदम्॥८०॥

 विभूषणेति ॥ अपरान्तःकरणे शरीरमध्येऽमान्तं संमदं शरीरमानादधिकमानं बहिरवस्थितं नलदर्शनजं प्रमोदं विभूषणानां स्त्रंसनस्य शंसने तव मण्डनं गलितम् , तव मण्डनं गलितमिति प्रत्येकं कथने विषयेऽर्पितैर्दत्तैः करप्रहारैरपि धूननैरपि तच्छरीरकम्पनैश्च कृत्वा प्रसभं बलात्कारेण स्वसखीषु पुरा समापयतीव प्राविशदिव । विचित्तत्वेन शब्दमशृण्वन् , करेण ताड्यते, पतितविस्मृतभूषणादिसंवेदनाय कम्प्यते चेति, तथा अन्यदपि कुसूलादावमाद्गोधूमादि बहिरवसंस्थितं सद्बलात्कारेण करताडनैः करकृतैर्धूननैश्चान्तर्भाव्यत इति च लौकिकी रीतिः । नलदर्शनानुरागादतिविमनस्कास्ता जाता इति भावः । पुरा समापयतीति 'पुरि लुङ् चास्मे' इति लट् ॥

 विभूषणभ्रंशःशब्देन किमिति न ज्ञापित इत्यत आह-

वतंसनीलाम्बुरुहेण किं दृशा विलोकमाने विमनीबभूवतुः ।
अपि श्रुती दर्शनसक्तचेतसां न तेन ते शुश्रुवतुर्मृगीदृशाम्॥८१॥

 वतंसेति ॥ नलदर्शने सक्तं चेतो यासां मृगीदृशां श्रुती कर्णावपि वतंसनीलाम्बुरुहेण कर्णभूषणनीलोत्पलेनैव दृशा नेत्रेण नलं विलोकमाने सत्यौ यस्माद्विमनीबभूवतुर्व्याकुले जाते तेन ते श्रुती किं भूषणस्त्रंसनं न शुश्रुवतुः । चक्षुषी किल श्रवणानहत्वा- न्नाशृणुताम् , कर्णौ तु श्रोतुं योग्यावेवेत्यपेरर्थः । ताः सुदृश्यो यथा नलविलोकने विमनस्का जातास्तथा कर्णावपि विमनस्कौ जाताविति वापेरर्थः । विमनीबभूवतुः, 'अरुर्मनश्चक्षुः-' इति च्विः सलोपश्च ॥

काश्चिन्निर्माय चक्षुःममृतिचुलुकितं तास्वशङ्कन्त कान्ता
 मौग्ध्यादाचूडमोधैर्निचुलितमिव तं भूषणानां मणीनाम् ।
साहस्रीभिर्निमेषाकृतमतिभिरयं दृग्भिरालिङ्गितः किं
 ज्योतिष्टोमादियज्ञश्रुतिफलजगतीसार्वभौमनमेण ॥ ८२ ॥

 काश्चिदिति ॥ पश्यन्तीषु तासु मध्ये कान्ताः सुन्दर्यः काश्चित्पुरनार्यों भूषणानां ये मणयस्तेषां भूषणभूतानां वा मणीनां रत्नानामोघैः समूहैराचूडं शिखामभिव्याप्य निचुलितमाच्छादितमिव तत्र ब्रुडितमिव तं नलं चक्षुरूपाभ्यां प्रसृतिभ्यामर्धसंकुचितकरकुड्भलाभ्यां चुलुकितं पीतं निर्माय कृत्वा प्रसृतिप्रमाणाभ्यामतिविशालाभ्यां च- क्षुा सादरदृष्टं कृत्वा इति मौग्ध्यादनैपुण्यादशङ्कत तर्कयामासुः । इति मौग्ध्यं किम्-निमेषे पक्ष्मसंकोचेऽकृतमतिभिरनिमिषाभिः साहस्रीभिःसहस्रसंख्याभिर्दृग्भिर्दृष्टििर्भिर्ज्योतिष्टोमराजसूयादियज्ञानां वेदाच्छरुतं यत्फलं साध्यं तद्रूपा या जगती भुवनं