पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५६
नैषधीयचरित


सन्तोऽपि । तया भैम्यास्मिन्नले वृते सति यद्दुर्मनसः सविषादमनसो जाताः सा तेषामनौचित्यनुचितकारिता सोढुं क्षन्तुं नोचितायुक्ता । नहि साधुभिः कार्यवशादपि स्वधर्मः परित्यज्यते, एतैस्तु परित्यक्तः, तद्वयं न सहामह इत्यर्थः । कृतेऽव्ययम् ॥

अस्योत्कण्ठितकण्ठलोठिवरणस्रक्साक्षिभिर्दिग्भटैः
 खं वक्षः स्वयमस्फुटन्न किमदः शस्त्रादपि स्फोटितम्।
व्यावृत्त्योपनतेन हा शतमखेनाद्य प्रसाद्या कथं
 भैम्यां व्यर्थमनोरथेन च शची साचीकृतास्याम्बुजा ॥८५॥

 अस्येति ॥ अस्य नलस्य चिरकालं वरणमालाश्लेषार्थमुत्कण्ठिते कण्ठे लोठिन्याश्चलन्त्या हृदयावलम्बिन्या वरणस्रजः साक्षिभिः प्रत्यक्षदर्शिभिर्दिग्धवैश्चतुभिरिन्द्रादिभिर्दिक्पालैस्त्रपाभावात्स्वयमस्फुटदविदीर्यमाणमपि स्वं वक्षोऽमुष्य नलस्य शस्त्रादपि हेतोः किमिति न स्फोटितं विदारितम् । नलेन सार्धं भैम्यर्थं युद्धमपि कृत्वा किमिति न मृतम् । शूराणां रणे मरणमपि यशसे भवति, न लज्जापरित्याग इति भावः। छुरिकादिप्रक्षेपेण स्वयमेव वा किमिति न स्फोटितमिति वा । अग्न्यादयस्तावत्तिष्ठन्तु हा सोपहासं कष्टम् । अद्य भैभ्यां विषये व्यर्थमनोरथेन सता व्यावृत्त्य परावृत्त्य उपनतेन शचीसमीपे प्रणामवशान्नेम्रेण शतमखेन शतयज्ञकरणलब्धस्वर्गाधिपत्येन देवेन्द्रेणापि शची चेन्द्राण्यपि कथं प्रसाद्यानुनेतुं शक्या । यतः-कोपवशादज्ञानवशाद्वा साचीकृतं वक्रीकृतमास्यमेवाम्बुजं यया । संमुखानवलोकनात्प्रसादनार्थमनेन कृतमपि प्रणामाचल्यादिकं न द्रक्ष्यति, ततः कथं प्रसाद्या । भैमी न लब्धा, शची च रुष्टा, अयशोऽपि जातमितीन्द्रस्य महत्कष्टं जातमिति भावः । दिक्षु भटैः शूरैर्नृपैः स्वं वक्षः किमिति न स्फोटितम् । नृपा मनुष्यास्तिष्ठन्तु, देवेन्द्रस्यापदृशी दशा जातेति वा। 'उपगतेन' इति पाठे शचीसमीपे गतेन ॥

मा जानीत विदर्भजामविदुषी कीर्ति मुदः श्रेयसी
 सेयं भद्रमचीकरन्मघवता न स्वं द्वितीयां शचीम् ।
कः शच्या रचयांचकार चरिते काव्यं स नः कथ्यता-
 मतस्यास्तु करिष्यते रसधुनीपात्रे चरित्रे न कैः ॥ ८६ ॥

 मा जानीतेति ॥ भोः सख्या, यूयं विदर्भजां मुदो हर्षात्सकाशात्कीर्तिं श्रेयसीं श्रेष्ठतरामविदुषीमजानतीं मा जानीत । किंतु हर्षापेक्षया कीर्तिः प्रशस्यतरेति भैमी वेत्त्येवेति जानीत । यद्यस्मात्सेयं भैमी मघवता प्रयोज्येन स्वमात्मानं द्वितीयां शचीं भद्रं साधु नाचीकरत् । न कारयामास । इन्द्रे वृते तत्पत्नीत्वाच्छचीशब्दवाच्यत्वं भवेन्नत्वसौ वृतस्तस्माद्द्वितीया शची नाभवदिति युक्तमेवानया कृतमित्यर्थः । इन्द्रे वृते कीर्तिर्भविष्यतीत्याशङ्क्य नेत्याह-शच्याश्चरिते कः कविः सर्गबन्धादिरूपेण वर्णनात्मकं काव्यं प्रबन्धं रचयांचकार स शचीवर्णनकारी नोस्साकमग्रे । अस्मभ्यं वा । कथ्यतां य-