पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५९
पञ्चदशः सर्गः।


न्यसुकृतात्स्त्री राजत्वं प्राप्नोति तत्र स्नानेन । 'सितासिते तु यैः स्नातं माघमासे युधिष्ठिरं। न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥' इति वचनात् । स्त्रीपु श्रेष्ठा सैव भवेदित्यर्थः। अयं च कटाक्षैर्या पश्यति सा तु सर्वाभ्योऽप्यधिका । सा च भैम्येव नान्या । भैम्या च प्रयागे सकलमाघस्नानफलं लब्धम् । भैमीसदृशी कापि कुत्रापि नास्तीति भावः।ज्यैष्टीति, ज्येष्ठानक्षत्रयुक्ता पौर्णमासीति 'नक्षत्रेण युक्तः कालः' इत्यणि वृद्धिः । तद्युक्तमासाभिधायित्वेऽपि 'सास्मिन्पौर्णमासी'-इत्यादिना ज्यैष्ट इत्येव भवति । 'ज्येष्ठी' इति पाठे वृद्ध्यभावश्चिन्त्यः । संज्ञापूर्वकस्य विधेरनित्यत्वावृद्ध्यभावः कथंचित्समर्थनीयः। 'स्त्रीराट्' इति संबन्धषष्ट्या निर्धारणसप्तम्या वा समासः । पृथग्वा पदम्राजैव सा स्त्रीत्यर्थः । 'कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' इति 'देशश्चाकर्मकाणां कर्मसंज्ञो भवतीति वक्तव्यम्' इति वचनान्माघस्य कालवाचित्वात्कर्मत्वे धातोः कर्मणि विहितेन तङा तस्याभिहितत्वान्माघः सस्ने इति प्राप्ते माघमिति द्वितीयाचिन्त्या । अत्रार्थे हरदत्तमित्रैः-'गतिबुद्धि-' इत्यादिसूत्रे 'अकर्मकाणामिति कालभावाध्वदेशव्यतिरिक्तकर्मरहितानाम्' इत्यर्थों ग्राह्यः-इति सिद्धान्तितम्।एवं 'लः कर्मणि च-' इत्यादावपि यत्राकर्मकग्रहणं तत्र सर्वत्र द्रष्टव्यम् । तेनात्र माघस्य कर्मत्वे 'सस्ने' इति लिट् सिद्धो भवति । यद्वा-मा अघं यस्यां क्रियायां यथातथा स्नाताया मम सर्वपापक्षयपूर्वकसर्वमनोरथसिद्धिर्भवत्विति संकल्प्येत्यर्थः । 'कलुषं वृजिनैनोघम्' इत्यमरः । यमुनागङ्गेति पूर्वनिपातानियमः पूर्ववत्परिहरणीयः ॥

वैदर्भीविपुलानुरागकलनात्सौभाग्यमत्राखि[१]ल-
 क्षोणीचक्रशतक्रतो निजगदे तबृत्तवृत्तक्रमैः।
किंचास्माकनरेन्द्रभूसुभगतासंभूतये लग्नकं
 देवेन्द्रावरणप्रसादितशचीविश्राणिता[२] शीर्वचः ॥ ९०॥

 वैदर्भीति ॥ हे सख्यः, तस्य नलसंबन्धीनि वृत्तान्यधीतानि यानि वृत्तानि पद्यानि तेषां क्रमैर्नलविषये कविभिः कृतैरमदादिभिश्च पठितः काव्यैः। तस्या भैम्या वृत्तैरतीतैः सकलद्वीपाधिराजेन्द्रदेवेन्द्रादिदिक्पालपरित्यागरूपस्य चरित्रस्य क्रमैः परिपाटीभिर्वा । कृत्वा वैदर्भ्या भैम्या विपुलस्य नलविषयानुरागस्य कलनाज्ज्ञानादखिलक्षोणीचक्रे शतक्रताविन्द्रेऽस्मिन्नले. स्त्रीसंबन्धिसकलवरप्रेमास्पदत्वादिलक्षणं सौभाग्यं निजगदे स्पष्टं कथितम् । निश्चितमस्माभिरिति यावत् । अतिसुन्दरीयमिन्द्रादीन्परि त्यज्य यस्मादेनमवृत, तस्मादयमेव सुभगतमो नान्य इति सनिश्चितमित्यर्थः। भैमीकृतान्नलविषयविपुलानुरागस्याङ्गीकरणाद्धेतोस्तस्या एव वृत्तस्य भूतस्य चक्षुःप्रीत्यादिकामदशास्फुटविरहव्यथानुरूपस्य वृत्तस्य चरित्रस्य क्रमैः । तेऽतिप्रसिद्धा ये वृत्तक्रमास्तैर्वा निगदितम् । भैम्या अप्येतद्विषयमहानुरागजनितपूर्वोक्तविरहव्यथाभिरेव अयं सकलसौभाग्यनिधानमिति सर्वेषां पुरस्तात्कथितमिति भाव इति मुख्योऽर्थः । वै-


  1. 'अखिलम्' इति पाठे सौभाग्यविशेषणत्वेन योज्यमिति सुखाबबांधा।
  2. 'आशीस्ततिः' इति पाठः सुखावबोधास्थः।