पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
प्रथमः सर्गः

 मरुदिति ॥ स नलः पचेलिमं पक्वं मालूरफलं बिल्वफलं ददर्श । किंभूतम्-मरुता ललन्तो विलसन्तो ये पल्लवाः शाखाग्राणि तेषां कण्टकैः क्षतम् । मरुद् देवः, तद्वल्ललन्विलासं कुर्वन्यः पल्लवो विटस्तस्य कण्टकाः कण्टकवत्तीक्ष्णा नखास्तैः क्षतम् । अथ च-तस्य पल्लव इव पल्लवः पाणिः, तस्य कण्टकैर्नखैरिति छायार्थः । तथा समुच्छलदुद्गच्छच्चन्दनवत्सारं श्रेष्ठं सौगन्ध्यं यस्मात् । चन्दनस्य सारं सौगन्ध्यं यस्मादिति च । सारशब्देन घनसारः कर्पूरो लक्षणया, श्रीखण्डयुक्तः सार इति वा । अत एव वारनारी गणिका तस्याः कुचौ ताभ्यां संचिता तुल्या, अर्जिता वा उपमा सादृश्यं यस्य । गणिकास्तनतुल्यशोभं वा । कुलस्त्रीकुचे नखक्षतादिप्राकट्योक्तेरनौचित्यमिति 'वार' इति पदम् । 'बिल्वे शाण्डिल्यशैलूषो मालूरश्रीफलौ' इत्यमरः । ललतिरुभयपदी । 'इगन्ताच्च लघुपूर्वात्' इति भावेऽण् । कर्मकर्तरि केलिमर उपसंख्यानात्पचेलिमम् ॥

युवद्वयीचित्तनिमज्जनोचितप्रसूनशून्येतरगर्भगह्वरम् ।
स्मरेषुधीकृत्य धिया भयान्धया स पाटलायाः स्तबकं प्रकम्पितः ९५

 युवेति ॥ स नलो भयान्धया भयभ्रान्तया धिया बुद्ध्या पाटलायाः स्तबकं गुच्छं स्मरेषुधीकृत्य तूणीरीकृत्य प्रकम्पितश्चकितः। किंभूतं गुच्छम्-युवद्वयी स्त्रीपुंसद्वयी तस्याश्चित्ते वेध्येऽन्तःकरणे तयोर्मध्ये निमज्जनं व्रुडनं तस्मिन्नुचितानि योग्यानि प्रसूनानि पुष्पाणि तैः शून्यतरं पूर्णं गर्भगह्वरं मध्यबिलं यस्य । एतत्पाटलागुच्छं न भवति, किंतु कामस्य शस्त्रमिति बुद्ध्या कम्पित इत्यर्थः ॥

मुनिद्रुमः कोरकितः शितिद्युतिर्वनेऽमुनामन्यत सिंहिकासुतः ।
तमिस्रपक्षत्रुटिकूटभक्षितं कलाकलापं किल वैधवं वमन् ॥ ९६ ॥

 मुनीति ॥ अमुना नलेन वने कोरकितः शितिः कृष्णा द्युतिर्यस्य स मुनिद्रुमोऽगस्त्यवृक्षः सिंहिकासुतो राहुरिवामन्यत ज्ञात इति लुप्तोत्प्रेक्षा । किल इवार्थे वा। किंभूतो राहुः-तमित्रपक्षेऽन्धकारपक्षे या त्रुटिश्चन्द्रस्य कलाविच्छेदः सैव कूटं व्याजस्तेन भक्षितं गिलितं वैधवं विधुश्चन्द्रः, तत्संबन्धिनं कलाकलापं कलासमूहं वमन्नुद्गिरन् । मुनिपदं शान्तिसंभावनाद्वधनिवृत्तिसंभावनार्थम् । श्यामवर्णत्वाद्राहुत्वम् । श्यामवृत्तस्य कलिकानां शुभ्रत्वादाकारसाम्याच्च चन्द्रकलात्वम्। चन्द्राद्भयमनेन व्यज्यते। कोरकाः संजाता अस्य । तारकादित्वादितच् । अथ च सिंहिकापुत्रः सिंहः शितिद्युतिर्धवलवर्णः भक्षितं श्वापदाद्युद्गिरन् वनेऽमन्यत अयं सिंह इति । तद्दर्शनाद्यथा भयं भवति तथा विरहिणोऽस्यागस्त्यदर्शनाज्जातमिति भावः । 'शिती धवलमेचकौ' इत्यमरः ॥


१ 'कर्मकर्तरि चायं कैश्चिदिष्यते, भाष्यकारेण तु कर्मणि प्रदर्शितः' इति कैयटः । २ 'अत्रोपमालंकार' इति साहित्यविद्याधरी । ३ 'अत्रानुप्रासे रूपकालंकारः' इति साहित्यविद्याधरी । 'अत्र पाटलस्तबके मदनतूणीरभ्रमाद्भ्रान्तिमदलंकारः । 'कविसंमतसादृश्याद्विषये विहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥' इति लक्षणात्' इति जीवातुः । ४ 'अत्रोत्प्रेक्षारूपकापह्नुतिश्लेषालंकारसंकरः' इति साहित्यविद्याधरी।