पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६६२
नैषधीयचरिते

 वृत इति ॥ अथो रथारोहणानन्तरं रथैः 'कुन्ताः प्रविशन्ति' इतिवद्रथिभिः वृतः । तथा-रथी प्रशस्तरथोपेतः स धराधिपो नलो विदर्भाधिपतेर्गृहान् प्रति प्रतस्थे ययौ । किंभूतः-आत्मवित्तमं ब्रह्मज्ञानिमध्ये श्रेष्ठं गौतमं गोतमगोत्रमेतन्नामानं वा पुरोधसं द्विधा द्वाभ्यां प्रकाराभ्यां पुरस्कृत्याग्ने कृत्वा संपूज्य च विवाहकार्यभारं तस्मिन्नारोप्य वा गृहीतानि स्वीकृतानि दध्यक्षतपूर्णकलशादीनि मङ्गलानि येन । रथैः सह वर्तमानैः पुरुषैर्वा । प्रतस्थे, 'समवप्रविभ्यः स्थः' इति तङ् ॥

वि[१]भूषणांशुप्रतिबिम्बितैः स्फुटं भृशावदातैः स्वनिवासिभिर्गुणैः ।
मृगेक्षणानां समुपासि चामरैर्विधूयमानैः स विधुप्रभैः प्रभुः ॥२॥

 विभूषणेति ॥ मृगेक्षणानां चामरधारिणीनां विधुप्रभ्गैश्चन्द्रधवलैः । तथा-विधूयमानैश्चाल्यमानैश्चामरैः स प्रभुर्नलः समुपासि वीज्यते स । स्फुटमुत्प्रेक्षते-विभूषणानां रत्नखचितनिजमण्डनानामंशुषु किरणेषु प्रतिविम्बितैः। तथा-भृशावदातैरत्युज्ज्वलैः स्वस्मिन्निवसन्त्येवंशीलैः श्रुतशीलसौन्दर्यादिभिर्गुणैरिव । प्रत्यक्षीभूतैर्नलगुणैरिव चामरैरुपासीत्यर्थः । चामराण्यपि विभूषणरश्मिप्रतिबिम्बितानि । स्फुटं निश्चितम् । ईदृशैश्चामरैरेव गुणैरिति वा ॥

परार्ध्यवेषाभरणैः पुरःसरैः समं जिहाने निषधावनीभुजि ।
दधे सुनासीरपदाभिधेयतां स रूढिमात्राद्यदि वृत्रशात्रवः ॥३॥

 परार्ध्येति॥ निषधावनीभुजि नले पराानि श्रेष्ठानि वेषाभरणानि रूपालंकारा येषां तैः पुरःसरैः समं सह जिहाने चलति सति स वृत्रशात्रव इन्द्रः सुनासीर इति पदस्याभिधेयतां वाच्यत्वं यदि दधार तर्हि रूढिमात्राद्दधार, नतु शोभनं नासीरं सेनामुखं यस्येति यौगिकतया मुख्यवृत्त्या । मुख्यया वृत्त्या नल एव दृश्यते, नत्विन्द्रे । त्रिविधाः शब्दाः --केवलयौगिकाः, केवलरौढिकाः, योगरूढाश्च । तत्र-पाचकादयो यौगिकाः । तैलपायिकादयो रौढिकाः। आतपत्रादयो योगरूढाः। तदेवमेतादृशाग्रेसराभावादिन्द्रस्य सुनासीरपद्वाच्यत्वं यद्यस्ति तर्हि रूढ्यैव । व्युत्पत्त्या तु नल एवोचितमित्यर्थः । इन्द्रादप्यधिको नलः, तत्पुरःसराश्चेन्द्रपुरःसरदेवेभ्योऽप्यधिका इति भावः। परार्धे भवानि 'अर्धाद्यत्' 'परावराधमोत्तमपूर्वाञ्च' इति यत्। शत्रुरेव शात्रवः। प्रज्ञादित्वात्स्वार्थेऽण् । 'वृद्धश्रवाः सुनासीरः' इत्यमरः॥

नलस्य नासीरसृजां महीभुजां किरीटरलैः पुनरुक्तदीपया ।
अदीपि रात्रौ वरयात्रया तया चमूरजोमिश्रतमिस्रसंपदा ॥ ४ ॥

 नलस्येति ॥ तया वरस्य भैमीवरस्य नलस्य यात्रया । वरा वा यात्रा तया । रात्रावदीपि शुशुभे । किंभूतया-नलस्य नासीरसृजां सेनायामग्रेसरीभूतानां महीभुजां राज्ञां किरीटरत्नैः स्वेनैवान्धकारनिराकरणात्पुनरुक्ता व्यर्थीकृता दीपा यस्यां तया। तथा-च-


  1. 'स्वभूषणांशु' इति पाठो जीवातुसुखावबोधासंमतः ।