पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
६६८
नैषधीयचरिते


इति पाठेऽनर्थो न । तस्या दक्षिणार्धेन तस्मै यस्माददायीत्यर्थः। अयं पाठः साधीयान् । 'सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः' इत्यमरः॥

उवाह यः सान्द्रतराङ्गकाननः खशौर्यसूर्योदयपर्वतव्रतम्।
सनिर्झरः [१]शाणनधौतधारया समूढसंध्यः क्षतशत्रुजासृजा ॥२०॥

 उवाहेति ॥ यः खड्गः स्वस्य भीमस्य खड्गस्यैव वा शौर्यं प्रतापरूपो यः सूर्यस्तस्योदयस्तत्संबन्धी पर्वत उदयाचलस्तस्य व्रतं नियमं सदासूर्योदयकारित्वलक्षणमुवाहाधृत । किंभूतः-सान्द्रतराण्यल्पानि सूक्ष्माण्यङ्गान्यङ्गकानि मुद्गपत्रीवल्लीरूपाणि तेषामननं जीवनं यत्र । तदाधार इति यावत् । सान्द्रतराणां पूर्वोक्तानामेवाङ्गानां काननं समूहो यत्र । उदयाचलपक्षे-सान्द्रतराण्यङ्गेषूध्र्वाधोभागेषु काननानि वनानि यस्य । तथा-शाणनेन लोहकारचक्रघर्षणेन धौतयोज्ज्वलीकरणे (न)दत्तपाणीकया धारया कृत्वा सनिर्झरः सप्रवाहः । धारैव निर्झरीभूतेत्यर्थः। उदयाचलोऽपि सनिर्झरो भवति। तथा-क्षतेभ्यः खण्डितेभ्यः शत्रुभ्यो जातेनासृजा रक्तेन कृत्वा सम्यक् रूढा प्राप्ता संध्या येन । प्रातःसंध्यास्थाने रक्तमेव येन धृतमित्यर्थः । सम्यग्धृता संध्या त्सरुफलकसंधिर्येन । अतिदृढसंधिरित्यर्थ इति वा । यद्वा-क्षतशत्रुजासृजा समूढः प्राप्तः संधिर्यस्य । त्सरुफलकसंधिपर्यन्तं शत्रुशरीरे निमग्न इत्यर्थः। उदयाचलोऽप्यूढप्रातःसंध्यः । उदयाचलतुल्योऽभूदित्यर्थः। तमदत्त इति पूर्वेण संबन्धः। 'अङ्गक-' इति पक्षे 'अल्पे' इति कन्[२]

यमेन जिह्वा प्रहितेव या निजा तमात्मजां याचितुमर्थिना भृशम् ।
स तां ददेऽस्मै परिवारशोभिनीं करग्रहार्हामसिपुत्रिकामपि ॥२१॥

 यमेनेति ॥ स भीमस्तामसिपुत्रिकां छुरिकामप्यस्मै ददे । न केवलं खड्गमित्यपेरर्थः । न केवलं पुत्रीमपि तु छुरिकामपि । तां काम्-भृशर्थिना भैम्यामनुरागिणा यमेन तं भीमं भैमीं मह्यं देहीत्यात्मजां याचितुं दूतीप्रेषणावसरे निजा स्वीया प्रहिता प्रेषिता जिह्वेव । नियतं प्राणहारित्वाद्यमजिह्वातुल्यातितीक्ष्णा । शौर्येण तुष्टो यमो यां भीमाय दत्तवान् । किंभूताम्-परिवारशालिनीं चर्मकोशेन शोभमानाम् । अथच-सखीलक्षणपरिजनशोभिनीम् । करग्रहार्हां हस्तग्रहणयोग्याम् । साधुमुष्टिदेशाम् । पूर्वं यद्यपि भैमी दत्ता, तथापि परिवारसाहित्येनेदानीं दत्तेत्यर्थः । छुरिकां सखीश्च यौतकत्वेन ददाविति भावः। 'छुरिका चासिपुत्रिका' इत्यमरः। याचिर्द्विकर्मा [३]

यदङ्गभूमी बभतुः स्वयोषितामुरोजपत्रावलिनेत्रकज्जले।
रणस्थलस्थण्डिलशायिताव्रतैर्गृहीतदीक्षैरिव दक्षिणीकृते ॥ २२ ॥

 यदिति ॥ यस्याः शख्या अङ्गभूमी पट्टिकाया ऊर्ध्वाधोदेशौ स्वयोषितां स्वस्वस्त्री--


  1. 'शाणनिधौतधारया' इति पाठः । 'शाणन-' इति पाठश्चिन्त्यः-इति सुखावबोधा।
  2. 'रूपकालंकार:'-इति जीवातुः।
  3. 'शस्त्रीपुत्रिकयोः प्रकृतत्वात्केवलप्रकृतश्लेषः' इति जीवातुः