पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७२
नैषधीयचरिते

विन्यपि भूतवदुपचारः । यद्वा तस्यैवातिरक्तत्वाजनस्योद्गारत्यागभ्रमः । अमी पूग- कणाः किं वा किरणसमूह इति संदेहश्चिरान्निर्णीत इति [१]वा ॥

मयेन भीमं भगवन्तमर्चता नृपेपि पूजा प्रभुनाम्नि या कृता।
अदत्त भीमोपि स नैषधायं तां हरिन्मणेर्भॊजनभाजनं महत् ॥ २९ ॥

 मयेनेति ॥ भगवन्तं षड्गुणैश्वर्यसंपन्नं भीमं शिवमर्घ्यादिभिरुपचारैरर्चता पूजयता शैवेन मयनाम्नाऽसुरेण प्रभुनाम्नि शिवनामधारके नृपेऽपि भीमेऽपि पूजा कृताऽकारि, स भीमोऽपि तां पूजां पूजारूपं हरिन्मणेर्गरुडमणिसंबन्धिविषापहारसमर्थमतिविस्तृतं भोजनार्थं भाजनं नैषधायादत्त । मयेन तस्मै दत्तम् , सोपि नलायादत्तेत्यपिशब्दः समुच्चयार्थः। अर्चतिर्मौवादिकः॥

छदे सदैव च्छविमस्य बिभ्रतां न केकिनां सर्पविषं विसर्पति ।
न नीलकण्ठत्वमधास्यदत्र चेत्स कालकूटं भगवानभोक्ष्यत ॥३०॥

 छदे इति ॥ अस्य भोजनपात्रस्य छविं नीलां द्युतिं सदैव छदे पिच्छे बिभ्रतां केकिनां मयूराणां सर्पविषं न प्रसर्पति । तच्छरीरं नाकामतीत्यर्थः । स भगवाञ्छिवोत्र पात्र एतदाधारत्वेन कालकूटं चेदभोक्ष्यत तर्हि नीलकण्ठत्वं नाधास्यत् । अत्र पात्रे विषभक्षणे कृते सति तज्जीर्णतया नीलकण्ठत्वं न स्यादित्यर्थः । क्रियातिपत्तौ लङ् । 'भुजोऽनवने' इति तङ्॥

विराध्य दुर्वाससमस्खलद्दिवः स्रजं त्यजन्नस्य किमिन्द्रसिन्धुरः।
अदत्त तस्मै स मदच्छलात्सदा यमभ्रमातङ्गतयैव वर्षुकम् ॥३१॥

 विराध्येति ॥ स भीमस्तस्मै नलाय मदच्छलाद्दानजलव्याजात्सदा वर्षुकं वर्षणशीलं यं हस्तिनमदत्त । स दुर्वाससं विराध्य रोषयित्वा तच्छापादिन्द्रसिन्धुर ऐरावतो दिवः सकाशादस्खलत्पतितः किम् । भुवमागत ऐरावणः किमित्यर्थः । विराधे हेतुः- अस्य दुर्वाससः स्रजं मालां त्यजन्भुवि क्षिपन् । अत्र पौराणिकी कथा-कदाचिदैरावतमारुह्य गच्छत इन्द्राय दुर्वाससा प्रसादेन मन्दारपुष्पमाला दत्ता, सा चेन्द्रेण करीन्द्रकुम्भे स्थापिता, स तां शुण्डादण्डेनाधश्चिक्षेप, ततः कुपितेन मुनिना त्वमपि मा- लावधः पतेति शप्तः । तन्मूलेयमुत्प्रेक्षा । वर्षकत्वेन पुनरुत्प्रेक्षते-अभ्रमातङ्गतया ऐरावतत्वेनेव । ऐरावतो हि सदा मदजलं वर्षति, अयमपि तावत्स्वर्गाद्भ्रष्टः स एव इति सदा दानजलं मुञ्चतीत्यर्थः । अभ्रवन्मातङ्गस्तत्तया वा । श्यामत्वात्सजलघनतुल्य इत्यर्थः। अस्य भीमस्य संबन्धित्वेन अस्खलत् किमिति वा।वर्षुकम् 'लषपत-' इत्युकञ्॥

मदान्मदग्रे भवताथवा भिया परं दिगन्तादपि यात जीवत ।
इति स्म यो दिक्करिणः स्वकर्णयोर्विनैव वर्णस्रजमागतैर्गतैः॥३२॥


  1. "निश्चयान्तः संदेहालंकारः' इति जीवातुः।