पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७३
षोडशः सर्गः।

मदादिति ॥ यो गजः स्वकर्णयोरागतैर्गतैरागमनैर्गमनैश्च कृत्वा वर्णनजं वर्णमाला दिक्करिणो दिग्गजान्प्रति इत्याह स्मेव । इति किम्-भो दिग्गजाः, भवतां बलाभिमानश्चेदस्ति तर्हि मदाद्युद्धं कर्तुं यूयं मदघ्रे भवत मम पुरस्तात्तिष्ठत । अथवा चेन्मदो नास्ति, तर्हि भिया दिगन्तस्था यूयं दिगन्तादपि परं दूरं यात गच्छत, पलायिताश्च सन्तस्तत्रैव सुखेन जीवत स्वप्राणान्रक्षतेति । इयं लुप्तोत्प्रेक्षा ॥

बभार बीजं निजकीर्तये रदौ द्विषामकीर्त्यै खलु दानविप्रुषः ।
श्रवःश्रमैः कुम्भकुचां शिरःश्रियं मुदे मदस्वेदवतीमुपास्त यः ॥ ३३ ॥

 बभारेति ॥ यो गजो निजकीर्तये रदौ दन्तौ बीजं कारणं बभार । द्विषामकीर्त्यै दानविप्रुषो दानोदबिन्दूनेव कारणं बभार । खलूत्प्रेक्षायाम् । दन्ताभ्यां परविदारणात्स्वयशः- समुत्पत्तेस्तयोः कीर्तिकारित्वम् । अथ च-कीर्तिलक्षणस्य कार्यस्य शुभ्रत्वात्कारणेनापि तादृशेनैव भवितुं युक्तमिति कीर्तिबीजभूतकन्दाविव । मदजलगन्धाघ्राणमात्रेण परगजानां भङ्गाद्दानबिन्दूनां तदकीर्तिकारणत्वम् । कार्यस्य श्यामत्वात्कारणेनापि तादृशेनैव भवितुं युक्तमिति श्यामदानविन्दव एवाकीर्तेर्बीजमिवेत्युत्प्रेक्षा । तथा-मुहुर्मुहु- र्गतागतैः श्रवःश्रमैः कर्णप्रयासैरेव व्यजनचालनैः कृत्वा कुम्भावेव कुचौ यस्यास्तां मदस्वेदवती दानरूपधर्मोदकयुक्तां शिरःश्रियं धर्मजलापहरणद्वारा तस्या एव मुदे हर्षायोपास्त सिषेवे । एवंभूतं शिरो दधानः प्रीतिमुदपादयदित्यर्थः । कामकेलिखिन्नां कुम्भकुचां कामिनी स्वेदमपनयन्कामी तालवृन्तचालनेन बीजयतीति मदस्य स्वेदरूपेण शिरश्रियः स्त्रीत्वरूपणम् । अधत्तेति, 'मुदा' इत्यपि [१]पाठः ॥

न तेन वाहेषु विवाहदक्षिणीकृतेषु संख्यानुभवेऽभवत्क्षमः ।
न शातकुम्भेषु न मतकुम्भिषु प्रयत्नवान्कोपि न रत्नराशिषु॥३४॥

 नेति ॥ तेन भीमेन नलाय विवाहे दक्षिणीकृतेषु कन्यादानदक्षिणात्वेन दत्तेषु वाहेषु रथादिषु तुरगेषु वा संख्यानुभवे संख्याज्ञाने प्रयत्नवानपि कोऽपि कश्चिदपि क्षम इयन्तो वाहा दत्ता इत्येवं संख्यापरिच्छेदे समर्थो नाभवत् । तथा-शातकुम्भेष्वनेक- भूषणभूतघटिताघटितकाञ्चनेषु न । तथा—मत्तकुम्भिषु गलन्मदमातङ्गेषु च न । तथा-रत्नराशिषु न । क्षमोऽभवदिति सर्वत्र, विवाहदक्षिणीकृतेष्विति च । बहुतरं यौतकं दत्तमिति [२]भावः॥

करग्रहे वाम्यमधत्त यस्तयोः प्रसाद्य भैम्यानु च दक्षिणीकृतः ।
कृतः पुरस्कृत्य ततो नलेन स प्रदक्षिणस्तत्क्षणमाशुशुक्षणिः ॥ ३५ ॥

 करेति ॥ य आशुशुक्षणिरग्निस्तयोः करग्रहे विवाहे विषये वाम्यं वक्रत्वमधत्त भेजे। भैम्यभिलाषान्नलाकारधारणादिद्वारा पूर्वं विरुद्धोऽभूत्, अनु पश्चान्नलवरणावसरे


  1. 'उत्प्रेक्षात्रयसंसृष्टिः' इति जीवातुः।
  2. 'विवाहादिषु संख्यासंबन्धेप्यसंबन्धोक्तेरतिशयोक्तिभेदः' इति जीवातुः।