पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७४
नैषधीयचरिते

भैम्या स्तुतिध्यानादिना प्रसाद्य संतोष्य दक्षिणीकृत आनुकूल्यं नीतः सोऽग्निस्ततःपाणिग्रहणानन्तरं नलेन पुरस्कृत्योल्लेखनादिसंस्कारपूर्वमग्रे प्रतिष्ठाप्य तत्क्षणं तस्मिन्विवाहसमये प्रदक्षिणः प्रकर्षेणापसव्यः कृतो दक्षिणभागेन वलयाकारेण वेष्टितः। अथच-यः पूर्वं यौतकदानकाले वामभागेऽभूत्, पश्चाद्भैम्या फूत्कारादिना प्रबोध्यानुकूलः कृतः। अथच-दक्षिणभागे कृतः सोऽर्चनादिभिः संपूज्य नलेन सुतरामनुकूलः कृतः। अथ च-प्रदक्षिणे प्रकर्षेण दक्षिणभागे कृतः । अन्योपि यो महान्पूर्वं विरोध्यते स विवाहादौ प्रसाद्यानुकूलः क्रियत इत्युक्तिः । अत्र क्वचित्त्क्वचिद्विधिक्रमभङ्गो देशाचाराच्छाखाभेदात्कुलाचारविशेषाद्वा बोद्धव्यः । न पुनः श्रीहर्षकवेरज्ञानलेशोऽपि । अत एव पूर्वं यथाविधीति प्रायुङ्क्त । आशोष्टुमिच्छति, 'आङि शुषेः सनश्छन्दसि' इत्यनिः। शिष्टप्रयुक्तत्वाद्भाषायामपि साधुत्वं ज्ञेयम् ॥

स्थिरा त्वमश्मेव भवेति मन्त्रवागनेशदाशास्य किमाशु ता ह्रिया।
शिला चलेत्प्रेरणया नृणामपि स्थितेस्तु नाचालि बिडौजसापि सा ॥ ३६ ॥

 स्थिरेति ॥ हे भैमि, ‘इममश्मानमारोह' इत्युच्चार्य 'त्वमश्मेव स्थिराभव' इति नलेनोच्चारिता मन्त्ररूपा वाक्तां भैमीमाशास्य शिलावन्निश्चला भवेति तस्यै आशिषं दत्त्वा आश्वनेशन्ननाश। वर्णा उच्चारिताः प्रध्वस्ता भवन्ति । तत्रोत्प्रेक्षते-हिया किम् । किमिति तस्या लज्जेत्यत आह-शिला अल्पतेजसां नृणामपि प्रेरणया करचरणव्यापारमात्रेण चलेत्स्वस्थानादन्यत्र गच्छेत् । सा तु भैमी पुनरतिप्रभाविणा बिडौजसेन्द्रेणापि स्थितेर्मनोव्यापारमात्रस्वीकृतनलपतित्वरूपाया मर्यादायाः सकाशान्नाचालि पतिव्रतासीमां न त्याजितेति । स्थिरतरत्वेनाधिकाया भैम्या अहं हीनेति स्वदोषं विचिन्त्य लजयैव नटेत्यर्थः । वैधमश्मारोहणं तेन कारितमिति भावः । 'नश अदर्शने' अस्माल्लुङि पुषादित्वादङि 'नशिमन्योरलिट्येत्वम्' (वार्ति०) इत्येत्वे रूपम् [१]

प्रियांशुकग्रन्थिनिबद्धवाससं तदा पुरोधा विदधे विदर्भजाम् ।
जगाद विच्छिद्य पटं प्रयास्यतो नलादविश्वासमिवेष विश्ववित ॥ ३७ ॥

 प्रियेति ॥ तदा वह्निसंनिधिकाले पुरोधा गौतमो विदर्भजां भैमीं प्रियस्य नलस्यांशुकेन सह ग्रन्थिना निबद्धं वासो यस्यास्तामेवंविधां विदधे चकार । उत्प्रेक्षते--पटं विच्छिद्य कर्तित्वाऽरण्ये भैमी विहाय प्रयास्यतो गमिष्यतो नलात्सकाशादेष पुरोधा अविश्वासं विश्वासाभावं जगादेव । वस्त्रं छित्त्वा त्वां हित्वायं गमिष्यतीत्येतस्य विश्वासो न कार्य इत्यस्य वस्त्रेण सह स्ववस्त्रस्य ग्रन्थि दत्त्वैवानेन सह विचरणीयमित्युवाचेवेत्यर्थः । कथमेतज्ज्ञातमत आह-यतो विश्वं सर्वं वेत्तीति । कालत्रयज्ञ इत्यर्थः । तस्माद्भविष्यदपि तेन ज्ञातमित्यर्थः । कलिना पराभूतो नलो द्यूतहारितसर्वस्वः स्वीयैस्त्यक्तो द्वापरेण कलिना पक्षिरूपेण तद्धारणार्थ क्षिप्तस्य वस्त्रस्यापहाराद्वस्त्रान्तराभावाड्भैमीवस्त्रार्धधारी सन्निद्राणायास्तस्या वस्त्रार्धं विच्छिद्य तां महारण्ये तत्याजेति महा-


  1. अत्र 'पूर्ववाक्यार्थस्योत्तरवाक्यार्थहेतुकत्वात्काव्यलिङ्गमलंकारः' इति जीवातुः।